इलसैन्यं च तत्रासीत् तद् गतं च यथासुखम् उमावनस्थिता चेला गायन्ती नृत्यती पुनः
स्त्रीभावम् अनुचेष्टन्ती स्मरन्ती कर्मणो गतिम् कदाचित् क्रियमाणे तु इलया नृत्यकर्मणि
ताम् अपश्यद् बुधो धीमान् पितरं गन्तुम् उद्यतः इलां दृष्ट्वा गतिं त्यक्त्वा ताम् आगत्याब्रवीद् बुधः
भार्या भव मम स्वस्था सर्वाभ्यस् त्वं प्रिया भव
बुधवाक्यम् इला भक्त्या त्व् अभिनन्द्य तथाकरोत् स्मृत्वा च यक्षिणीवाक्यं ततस् तुष्टाभवन् मुने
बुधो रेमे तया प्रीत्या नीत्वा स्वस्थानम् उत्तमम् सा चापि सर्वभावेन तोषयाम् आस तं पतिम् ततो बहुतिथे काले बुधस् तुष्टो ऽवदत् प्रियाम्
किं ते देयं मया भद्रे प्रियं यन् मनसि स्थितम्
तद्वाक्यसमकालं तु पुत्रं देहीत्य् अभाषत इला बुधं सोमसुतं प्रीतिमन्तं प्रियं तथा
अमोघम् एतन् मद्वीर्यं तथा प्रीतिसमुद्भवम् पुत्रस् ते भविता तस्मात् क्षत्रियो लोकविश्रुतः
सोमवंशकरः श्रीमान् आदित्य इव तेजसा बुद्ध्या बृहस्पतिसमः क्षमया पृथिवीसमः
वीर्येणाजौ हरिर् इव कोपेन हुतभुग् यथा
तस्मिन्न् उत्पद्यमाने तु बुधपुत्रे महात्मनि जयशब्दश् च सर्वत्र त्व् आसीच् च सुरवेश्मनि
बुधपुत्रे समुत्पन्ने तत्राजग्मुः सुरेश्वराः अहम् अप्य् आगमं तत्र मुदा युक्तो महामते
जातमात्रः सुतो रावम् अकरोत् स पृथुस्वरम् तेन सर्वे ऽप्य् अवोचन् वै संगता ऋषयः सुराः
यस्मात् पुरू रवो ऽस्येति तस्माद् एष पुरूरवाः स्याद् इत्य् एवं नाम चक्रुः सर्वे संतुष्टमानसाः
बुधो ऽप्य् अध्यापयाम् आस क्षात्रविद्यां सुतं शुभाम् धनुर्वेदं सप्रयोगं बुधः प्रादात् तदात्मजे
स शीघ्रं वृद्धिम् अगमच् छुक्लपक्षे यथा शशी स मातरं दुःखयुतां समीक्ष्येलां महामतिः नमस्याथ विनीतात्मा इलाम् ऐलो ऽब्रवीद् इदम्
बुधो मातर् मम पिता तव भर्ता प्रियस् तथा अहं च पुत्रः कर्मण्यः कस्मात् ते मानसो ज्वरः
सत्यं पुत्र बुधो भर्ता त्वं च पुत्रो गुणाकरः भर्तृपुत्रकृता चिन्ता न ममास्ति कदाचन
तथापि पूर्वजं किंचिद् दुःखं स्मृत्वा पुनः पुनः चिन्तयेयं महाबुद्धे ततो मातरम् अब्रवीत्
निवेदयस्व मे मातस् तद् एव प्रथमं मम
इला चैनम् उवाचेदं रहोवाचं कथं वदे तथापि पुत्र ते वच्मि पित्रोः पुत्रो यतो गतिः मग्नानां दुःखपाथोब्धौ पुत्रः प्रवहणं परम्
तन् मातृवचनं श्रुत्वा विनीतः प्राह मातरम् पादयोः पतितश् चापि वद मातर् यथा तथा
सा पुरूरवसं प्राह इक्ष्वाकूणां तथा कुलम् तत्रोत्पत्तिं स्वस्य नाम राज्यप्राप्तिं प्रियान् सुतान्
पुरोधसं वसिष्ठं च प्रियां भार्यां स्वकं पदम् वननिर्याणम् एवाथ अमात्यानां पुरोधसः
प्रेषणं च नगर्यां तां मृगयासक्तिम् एव च हिमवत्कन्दरगतिं यक्षेश्वरगृहे गतिम्
उमावनप्रवेशं च स्त्रीत्वप्राप्तिम् अशेषतः महेश्वराज्ञया तत्र चाप्रवेशं नरस्य तु
यक्षिणीवाक्यम् अप्य् अस्य वरदानं तथैव च बुधप्राप्तिं तथा प्रीतिं पुत्रोत्पत्त्याद्य् अशेषतः
कथयाम् आस तत् सर्वं श्रुत्वा मातरम् अब्रवीत् पुरूरवाः किं करोमि किं कृत्वा सुकृतं भवेत्
एतावता ते तृप्तिश् चेद् अलम् एतेन चाम्बिके यद् अप्य् अन्यन् मनोवर्ति तद् अप्य् आज्ञापयस्व मे