इत्य् आज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना किं करोमि पुमान् कान्ते त्वया प्रणयनार्दितः तस्मान् मया न गन्तव्यम् उमाया वनम् उत्तमम्
तद् भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी मृगी भूत्वा विशालाक्षी इलस्य पुरतो ऽभवत्
यक्षस् तु संस्थितस् तत्र ददर्शेलो मृगीं तदा मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः
एक एव हयारूढो निर्ययौ तां मृगीम् अनु साकर्षत शनैस् तं तु राजानं मृगयाकुलम्
शनैर् जगाम सा तत्र यद् उमावनम् उच्यते अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित् क्वचित्
तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् हरिणी चपलाक्षी सा तम् आकर्षद् उमावनम्
अनुप्राप्तो हयारूढस् तत् प्राप स उमावनम् उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा
मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी दिव्यरूपं समास्थाय चाशोकतरुसंनिधौ
तच्छाखालम्बितकरा दिव्यगन्धानुलेपना दिव्यरूपधरा तन्वी कृतकार्या समा तदा
हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा मृगीम् आलोकयन्तं तं चपलाक्षम् इलं तदा
भर्तृवाक्यम् अशेषेण स्मरन्ती प्राह भूमिपम्
हयारूढाबला तन्वि क्व एकैव तु गच्छसि पुरुषस्य च वेषेण इले कम् अनुयास्यसि
इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः यक्षिणीं भर्त्सयित्वासौ ताम् अपृच्छन् मृगीं पुनः
तथापि यक्षिणी प्राह इले किम् अनुवीक्षसे इलेति वचनं श्रुत्वा धृतचापो हयस्थितः
कुपितो दर्शयाम् आस त्रैलोक्यविजयी धनुः पुनः सा प्राह नृपतिं महात्मानम् इले स्वयम्
प्रेक्षस्व पश्चान् मां ब्रूहि असत्यां सत्यवादिनीम् तदा चालोकयद् राजा स्तनौ तुङ्गौ भुजान्तरे
किम् इदं मम संजातम् इत्य् एवं चकितो ऽभवत्
किम् इदं मम संजातं जानीते भवती स्फुटम् वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते
हिमवत्कन्दरश्रेष्ठे समन्युर् वसते पतिः यक्षाणाम् अधिपः श्रीमांस् तद्भार्याहं तु यक्षिणी
यत्कन्दरे भवान् राजा तूपविष्टः सुशीतले यस्य यक्षा हता मोहात् त्वया हि संगरं विना
ततो ऽहं निर्गमार्थं ते मृगी भूत्वा उमावनम् प्रविष्टा त्वं प्रविष्टो ऽसि पुरा प्राह महेश्वरः
यस् त्व् अत्र प्रविशेन् मन्दः पुमान् स्त्रीत्वम् अवाप्स्यति तस्मात् स्त्रीत्वम् अवाप्तो ऽसि न त्वं दुःखितुम् अर्हसि प्रौढो ऽपि को ऽत्र जानाति विचित्रभवितव्यताम्
यक्षिणीवचनं श्रुत्वा हयारूढस् तदापतत् तम् आश्वास्य पुनः सैव यक्षिणी वाक्यम् अब्रवीत्
स्त्रीत्वं जातं जातम् एव न पुंस्त्वं कर्तुम् अर्हसि गृहाण विद्यां स्त्रीयोग्यां नृत्यं गीतम् अलंकृतिम् स्त्रीलालित्यं स्त्रीविलासं स्त्रीकृत्यं सर्वम् एव तत्
इला सर्वम् अथावाप्य यक्षिणीं वाक्यम् अब्रवीत्
को वा भर्ता किं तु कृत्यं पुनः पुंस्त्वं कथं भवेत् एतद् वदस्व कल्याणी दुःखार्ताया विशेषतः आर्तानाम् आर्तिशमनाच् छ्रेयो नाभ्यधिकं क्वचित्
बुधः सोमसुतो नाम वनाद् अस्माच् च पूर्वतः आश्रमस् तस्य सुभगे पितरं नित्यम् एष्यति
अनेनैव पथा सोमं पितरं स बुधो ग्रहः द्रष्टुं याति ततो नित्यं नमस्कर्तुं तथैव च
यदा याति बुधः शान्तस् तदात्मानं च दर्शय तं दृष्ट्वा त्वं तु सुभगे सर्वकामान् अवाप्स्यसि
ताम् आश्वास्य ततः सुभ्रूर् यक्षिण्य् अन्तरधीयत यक्षिणी सा तम् आचष्ट यक्षो ऽपि सुखम् आप्तवान्