जित्वा यक्षान् बहुविधान् उवास दश शर्वरीः यक्षेश्वरो मृगो भूत्वा भार्ययापि वने वसन्
हृतगेहो वनं प्राप्तो हृतभृत्यः स यक्षिणीम् प्राह चिन्तापरो भूत्वा मृगीरूपधरां प्रियाम्
राजा ऽयं दुर्मनाः कान्ते व्यसनासक्तमानसः कथम् आयाति विपदं तत्रोपायो विचिन्त्यताम्
पापर्द्धिव्यसनान्तानि राज्यान्य् अखिलभूभुजाम् प्रापयोमावनं सुभ्रूर् मृगी भूत्वा मनोहरा
प्रविशेत् तत्र राजायं स्त्री भविष्यत्य् असंशयम् करणीयं त्वया भद्रे न चैतद् युज्यते मम अहं तु पुरुषो येन त्वं पुनः स्त्री च यक्षिणी
कथं त्वया न गन्तव्यम् उमावनम् अनुत्तमम् गते ऽपि त्वयि को दोषस् तन् मे कथय तत्त्वतः
हिमवत्पर्वतश्रेष्ठ उमया सहितः शिवः देवैर् गणैर् अनुवृतो विचचार यथासुखम् पार्वती शंकरं प्राह कदाचिद् रहसि स्थितम्
स्त्रीणाम् एष स्वभावो ऽस्ति रतं गोपायितं भवेत् तस्मान् मे नियतं देशम् आज्ञया रक्षितं तव
देहि मे त्रिदशेशान उमावनम् इति श्रुतम् विना त्वया गणेशेन कार्त्तिकेयेन नन्दिना
यस् त्व् अत्र प्रविशेन् नाथ स्त्रीत्वं तस्य भवेद् इति
इत्य् आज्ञोमावने दत्ता प्रसन्नेनेन्दुमौलिना किं करोमि पुमान् कान्ते त्वया प्रणयनार्दितः तस्मान् मया न गन्तव्यम् उमाया वनम् उत्तमम्
तद् भर्तृवचनं श्रुत्वा यक्षिणी कामरूपिणी मृगी भूत्वा विशालाक्षी इलस्य पुरतो ऽभवत्
यक्षस् तु संस्थितस् तत्र ददर्शेलो मृगीं तदा मृगयासक्तचित्तो वै मृगीं दृष्ट्वा विशेषतः
एक एव हयारूढो निर्ययौ तां मृगीम् अनु साकर्षत शनैस् तं तु राजानं मृगयाकुलम्
शनैर् जगाम सा तत्र यद् उमावनम् उच्यते अदृश्या तु मृगी तस्मै दर्शयन्ती क्वचित् क्वचित्
तिष्ठन्ती चैव गच्छन्ती धावन्ती च विभीतवत् हरिणी चपलाक्षी सा तम् आकर्षद् उमावनम्
अनुप्राप्तो हयारूढस् तत् प्राप स उमावनम् उमावनं प्रविष्टं तं ज्ञात्वा सा यक्षिणी तदा
मृगीरूपं परित्यज्य यक्षिणी कामरूपिणी दिव्यरूपं समास्थाय चाशोकतरुसंनिधौ
तच्छाखालम्बितकरा दिव्यगन्धानुलेपना दिव्यरूपधरा तन्वी कृतकार्या समा तदा
हसन्ती नृपतिं प्रेक्ष्य श्रान्तं हयगतं तदा मृगीम् आलोकयन्तं तं चपलाक्षम् इलं तदा
भर्तृवाक्यम् अशेषेण स्मरन्ती प्राह भूमिपम्
हयारूढाबला तन्वि क्व एकैव तु गच्छसि पुरुषस्य च वेषेण इले कम् अनुयास्यसि
इलेति वचनं श्रुत्वा राजासौ क्रोधमूर्छितः यक्षिणीं भर्त्सयित्वासौ ताम् अपृच्छन् मृगीं पुनः
तथापि यक्षिणी प्राह इले किम् अनुवीक्षसे इलेति वचनं श्रुत्वा धृतचापो हयस्थितः
कुपितो दर्शयाम् आस त्रैलोक्यविजयी धनुः पुनः सा प्राह नृपतिं महात्मानम् इले स्वयम्
प्रेक्षस्व पश्चान् मां ब्रूहि असत्यां सत्यवादिनीम् तदा चालोकयद् राजा स्तनौ तुङ्गौ भुजान्तरे
किम् इदं मम संजातम् इत्य् एवं चकितो ऽभवत्
किम् इदं मम संजातं जानीते भवती स्फुटम् वद सर्वं यथातथ्यं त्वं का वा वद सुव्रते
हिमवत्कन्दरश्रेष्ठे समन्युर् वसते पतिः यक्षाणाम् अधिपः श्रीमांस् तद्भार्याहं तु यक्षिणी
यत्कन्दरे भवान् राजा तूपविष्टः सुशीतले यस्य यक्षा हता मोहात् त्वया हि संगरं विना