अभिषिञ्चस्व भार्यां त्वं मज्जलैर् मन्त्रसंयुतैः कलशैर् उपचारैश् च ततः पत्नी तव प्रिया
सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना सर्वलक्षणसंपूर्णा रम्यरूपम् अवाप्स्यति
रूपवत्या पुनस् त्वं वै भार्यया चाभिषेचितः सर्वलक्षणसंपूर्णः कान्तं रूपम् अवाप्स्यसि
तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः सुरूपताम् उभौ प्राप्तौ गौतम्याश् च प्रसादतः
अभिषेकोदकं यच् च सा नदी समजायत तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम
वृद्धा नदीति विख्याता गौतमो ऽपि तथोच्यते वृद्धगौतम इत्य् उक्त ऋषिभिः समवासिभिः वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम्
मन्नाम्नीयं नदी देवि वृद्धा चेत्य् अभिधीयताम् त्वया च संगमस् तस्यास् तस्यास् तीर्थम् अनुत्तमम्
रूपसौभाग्यसंपत्तिपुत्रपौत्रप्रवर्धनम् आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् स्नानदानादिहोमैश् च पितॄणां पावनं परम्
अस्त्व् इत्य् आह च तां गङ्गा सुवृद्धां गौतमप्रियाम् गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम्
तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम्
ततः प्रभृति तत् तीर्थं वृद्धासंगमम् उच्यते
इलातीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ब्रह्महत्यादिपापानां पावनं सर्वकामदम्
वैवस्वतान्वये जात इलो नाम जनेश्वरः महत्या सेनया सार्धं जगाम मृगयावनम्
परिबभ्राम गहनं बहुव्यालसमाकुलम् नानाकारद्विजयुतं विटपैः परिशोभितम्
वनेचरं नृपश्रेष्ठो मृगयागतमानसः तत्रैव मतिम् आधत्त इलो ऽमात्यान् अथाब्रवीत्
गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् देशं कोशं बलं राज्यं पालयन्तु पुनश् च तम्
वसिष्ठो ऽपि तथा यातु आदायाग्नीन् पितेव नः पत्नीभिः सहितो धीमान् अरण्ये ऽहं वसाम्य् अथ
अरण्यभोगभुग्भिश् च वाजिवारणमानुषैः मृगयाशीलिभिः कैश्चिद् यान्तु सर्व इतः पुरीम्
तथेत्य् उक्त्वा ययुस् ते ऽपि स्वयं प्रायाच् छनैर् गिरिम् हिमवन्तं रत्नमयं वसंस् तत्र इलो नृपः
ददर्श कन्दरं तत्र नानारत्नविचित्रितम् तत्र यक्षेश्वरः कश्चित् समन्युर् इति विश्रुतः
तस्य भार्या समानाम्नी भर्तृव्रतपरायणा तस्मिन् वसत्य् असौ यक्षो रमणीये नगोत्तमे
मृगरूपेण व्यचरद् भार्यया स महामतिः स्वेच्छया स्ववने यक्षः क्रीडते नृत्यगीतकैः
इत्थं स यक्षो जानाति मृगरूपधरो ऽपि च इलस् तु तं न जानाति कन्दरं यक्षपालितम्
यक्षस्य गेहं विपुलं नानारत्नविचित्रितम् तत्रोपविष्टो नृपतिर् महत्या सेनया वृतः
वासं चक्रे स तत्रैव गेहे यक्षस्य धीमतः स यक्षो ऽधर्मकोपेन भार्यया मृगरूपधृक्
इलं जेतुं न शक्नोमि याचितो न ददाति च हृतं गेहं ममानेन किं करोमीत्य् अचिन्तयत्
युधि मत्तं कथं हन्यां चेति स्थित्वा स यक्षराट् आत्मीयान् प्रेषयाम् आस यक्षाञ् शूरान् धनुर्धरान्
युद्धे जित्वा च राजानम् इलम् उद्धतदन्तिनम् गृहाद् यथान्यतो याति मम तत् कर्तुम् अर्हथ
यक्षेश्वरस्य तद् वाक्याद् यक्षास् ते युद्धदुर्मदाः इलं गत्वाब्रुवन् सर्वे निर्गच्छास्माद् गुहालयात्
न चेद् युद्धात् परिभ्रष्टः पलाय्य क्व गमिष्यसि तद् यक्षवचनात् कोपाद् युद्धं चक्रे स राजराट्