ऋषीणां वचनं श्रुत्वा उभाव् अपि सुदुःखितौ लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह पप्रच्छ मुनिशार्दूलम् अगस्त्यम् ऋषिसत्तमम्
को देशः किम् उ तीर्थं वा यत्र श्रेयः समाप्यते शीघ्रम् एव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम्
वदद्भिर् मुनिभिर् ब्रह्मन् मया श्रुतम् इदं वचः सर्वे कामास् तत्र पूर्णा गौतम्यां नात्र संशयः
तस्माद् गच्छ महाबुद्धे गौतमीं पापनाशिनीम् अहं त्वाम् अनुयास्यामि यथेच्छसि तथा कुरु
एतच् छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमो ऽभ्यगात् तत्र तेपे तपस् तीव्रं पत्न्या स भगवान् ऋषिः
स्तुतिं चकार देवस्य शंभोर् विष्णोस् तथैव च गङ्गां च तोषयाम् आस भार्यार्थं भगवान् ऋषिः
खिन्नात्मनाम् अत्र भवे त्वम् एव शरणं शिवः मरुभूमाव् अध्वगानां विटपीव प्रियायुतः
उच्चावचानां भूतानां सर्वथा पापनोदनः सस्यानां घनवत् कृष्ण त्वम् अवग्रहशोषिणाम्
वैकुण्ठदुर्गनिःश्रेणिस् त्वं पीयूषतरंगिणी अधोगतानां तप्तानां शरणं भव गौतमि
ततस् तुष्टावदद् वाक्यं गौतमं वृद्धया युतम् शरणागतदीनार्तं शरण्या गौतमी मुदा
अभिषिञ्चस्व भार्यां त्वं मज्जलैर् मन्त्रसंयुतैः कलशैर् उपचारैश् च ततः पत्नी तव प्रिया
सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना सर्वलक्षणसंपूर्णा रम्यरूपम् अवाप्स्यति
रूपवत्या पुनस् त्वं वै भार्यया चाभिषेचितः सर्वलक्षणसंपूर्णः कान्तं रूपम् अवाप्स्यसि
तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः सुरूपताम् उभौ प्राप्तौ गौतम्याश् च प्रसादतः
अभिषेकोदकं यच् च सा नदी समजायत तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम
वृद्धा नदीति विख्याता गौतमो ऽपि तथोच्यते वृद्धगौतम इत्य् उक्त ऋषिभिः समवासिभिः वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम्
मन्नाम्नीयं नदी देवि वृद्धा चेत्य् अभिधीयताम् त्वया च संगमस् तस्यास् तस्यास् तीर्थम् अनुत्तमम्
रूपसौभाग्यसंपत्तिपुत्रपौत्रप्रवर्धनम् आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् स्नानदानादिहोमैश् च पितॄणां पावनं परम्
अस्त्व् इत्य् आह च तां गङ्गा सुवृद्धां गौतमप्रियाम् गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम्
तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम्
ततः प्रभृति तत् तीर्थं वृद्धासंगमम् उच्यते
इलातीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् ब्रह्महत्यादिपापानां पावनं सर्वकामदम्
वैवस्वतान्वये जात इलो नाम जनेश्वरः महत्या सेनया सार्धं जगाम मृगयावनम्
परिबभ्राम गहनं बहुव्यालसमाकुलम् नानाकारद्विजयुतं विटपैः परिशोभितम्
वनेचरं नृपश्रेष्ठो मृगयागतमानसः तत्रैव मतिम् आधत्त इलो ऽमात्यान् अथाब्रवीत्
गच्छन्तु नगरं सर्वे मम पुत्रेण पालितम् देशं कोशं बलं राज्यं पालयन्तु पुनश् च तम्
वसिष्ठो ऽपि तथा यातु आदायाग्नीन् पितेव नः पत्नीभिः सहितो धीमान् अरण्ये ऽहं वसाम्य् अथ
अरण्यभोगभुग्भिश् च वाजिवारणमानुषैः मृगयाशीलिभिः कैश्चिद् यान्तु सर्व इतः पुरीम्
तथेत्य् उक्त्वा ययुस् ते ऽपि स्वयं प्रायाच् छनैर् गिरिम् हिमवन्तं रत्नमयं वसंस् तत्र इलो नृपः
ददर्श कन्दरं तत्र नानारत्नविचित्रितम् तत्र यक्षेश्वरः कश्चित् समन्युर् इति विश्रुतः