तस्माद् वागीश्वरी देवी सा ते विद्यां प्रदास्यति अग्निश् च रूपवान् देवस् तव रूपं प्रदास्यति
एवम् उक्त्वा गौतमं तं वृद्धोवाच विभावसुम् प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन् मुनिम्
ततः सुविद्यः सुभगः सुकान्तो वृद्धां स पत्नीम् अकरोत् प्रीतियुक्तः तया स रेमे बहुला मनोज्ञया समाः सुखं प्रीतमना गुहायाम्
कदाचित् तत्र वसतोर् दंपत्योर् मुदतोर् गिरौ गुहायां मुनिशार्दूल आजग्मुर् मुनयो ऽमलाः
वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस् तस्य तां गुहाम्
आगतांस् तान् ऋषीञ् ज्ञात्वा गौतमः सह भार्यया सत्कारम् अकरोत् तेषां जहसुस् तं च केचन
ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः वृद्धां च गौतमं प्रेक्ष्य जहसुस् तत्र केचन
पुत्रो ऽयं तव पौत्रो वा वृद्धे को गौतमो ऽभवत् सत्यं वदस्व कल्याणि इत्य् एवं जहसुर् द्विजाः
विषं वृद्धस्य युवती वृद्धाया अमृतं युवा इष्टानिष्टसमायोगो दृष्टो ऽस्माभिर् अहो चिरात्
इत्य् एवम् ऊचिरे केचिद् दंपत्योः शृण्वतोस् तदा एवम् उक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः
ऋषीणां वचनं श्रुत्वा उभाव् अपि सुदुःखितौ लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह पप्रच्छ मुनिशार्दूलम् अगस्त्यम् ऋषिसत्तमम्
को देशः किम् उ तीर्थं वा यत्र श्रेयः समाप्यते शीघ्रम् एव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम्
वदद्भिर् मुनिभिर् ब्रह्मन् मया श्रुतम् इदं वचः सर्वे कामास् तत्र पूर्णा गौतम्यां नात्र संशयः
तस्माद् गच्छ महाबुद्धे गौतमीं पापनाशिनीम् अहं त्वाम् अनुयास्यामि यथेच्छसि तथा कुरु
एतच् छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमो ऽभ्यगात् तत्र तेपे तपस् तीव्रं पत्न्या स भगवान् ऋषिः
स्तुतिं चकार देवस्य शंभोर् विष्णोस् तथैव च गङ्गां च तोषयाम् आस भार्यार्थं भगवान् ऋषिः
खिन्नात्मनाम् अत्र भवे त्वम् एव शरणं शिवः मरुभूमाव् अध्वगानां विटपीव प्रियायुतः
उच्चावचानां भूतानां सर्वथा पापनोदनः सस्यानां घनवत् कृष्ण त्वम् अवग्रहशोषिणाम्
वैकुण्ठदुर्गनिःश्रेणिस् त्वं पीयूषतरंगिणी अधोगतानां तप्तानां शरणं भव गौतमि
ततस् तुष्टावदद् वाक्यं गौतमं वृद्धया युतम् शरणागतदीनार्तं शरण्या गौतमी मुदा
अभिषिञ्चस्व भार्यां त्वं मज्जलैर् मन्त्रसंयुतैः कलशैर् उपचारैश् च ततः पत्नी तव प्रिया
सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना सर्वलक्षणसंपूर्णा रम्यरूपम् अवाप्स्यति
रूपवत्या पुनस् त्वं वै भार्यया चाभिषेचितः सर्वलक्षणसंपूर्णः कान्तं रूपम् अवाप्स्यसि
तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः सुरूपताम् उभौ प्राप्तौ गौतम्याश् च प्रसादतः
अभिषेकोदकं यच् च सा नदी समजायत तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम
वृद्धा नदीति विख्याता गौतमो ऽपि तथोच्यते वृद्धगौतम इत्य् उक्त ऋषिभिः समवासिभिः वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम्
मन्नाम्नीयं नदी देवि वृद्धा चेत्य् अभिधीयताम् त्वया च संगमस् तस्यास् तस्यास् तीर्थम् अनुत्तमम्
रूपसौभाग्यसंपत्तिपुत्रपौत्रप्रवर्धनम् आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् स्नानदानादिहोमैश् च पितॄणां पावनं परम्
अस्त्व् इत्य् आह च तां गङ्गा सुवृद्धां गौतमप्रियाम् गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम्
तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम्