स तु द्वादश वर्षाणि तां दीक्षाम् अवहद् बली अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः
सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः तां वै क्रोधाच् च मोहाच् च श्रमाच् चैव क्षुधान्वितः
देशधर्मगतो राजा जघान मुनिसत्तमाः तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान्
भोजयाम् आस तच् छ्रुत्वा वसिष्ठो ऽप्य् अस्य चुक्रुधे
पातयेयम् अहं क्रूर तव शङ्कुम् असंशयम् यदि ते द्वाव् इमौ शङ्कू न स्यातां वै कृतौ पुनः
पितुश् चापरितोषेण गुरुदोग्ध्रीवधेन च अप्रोक्षितोपयोगाच् च त्रिविधस् ते व्यतिक्रमः
एवं त्रीण्य् अस्य शङ्कूनि तानि दृष्ट्वा महातपाः त्रिशङ्कुर् इति होवाच त्रिशङ्कुस् तेन स स्मृतः
विश्वामित्रस्य दाराणाम् अनेन भरणं कृतम् तेन तस्मै वरं प्रादान् मुनिः प्रीतस् त्रिशङ्कवे
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः सशरीरो व्रजे स्वर्गम् इत्य् एवं याचितो वरः
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके पित्र्ये राज्ये ऽभिषिच्याथ याजयाम् आस पार्थिवम्
मिषतां देवतानां च वसिष्ठस्य च कौशिकः दिवम् आरोपयाम् आस सशरीरं महातपाः
तस्य सत्यरथा नाम पत्नी कैकेयवंशजा कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम्
स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः
हरिश्चन्द्रस्य पुत्रो ऽभूद् रोहितो नाम पार्थिवः हरितो रोहितस्याथ चञ्चुर् हारित उच्यते
विजयश् च मुनिश्रेष्ठाश् चञ्चुपुत्रो बभूव ह जेता स सर्वपृथिवीं विजयस् तेन स स्मृतः
रुरुकस् तनयस् तस्य राजा धर्मार्थकोविदः रुरुकस्य वृकः पुत्रो वृकाद् बाहुस् तु जज्ञिवान्
हैहयास् तालजङ्घाश् च निरस्यन्ति स्म तं नृपम् तत्पत्नी गर्भम् आदाय और्वस्याश्रमम् आविशत्
नासत्यो धार्मिकश् चैव स ह धर्मयुगे ऽभवत् सगरस् तु सुतो बाहोर् यज्ञे सह गरेण वै
और्वस्याश्रमम् आसाद्य भार्गवेणाभिरक्षितः आग्नेयम् अस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः
जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् शकानां पह्नवानां च धर्मं निरसद् अच्युतः क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित्
कथं स सगरो जातो गरेणैव सहाच्युतः किमर्थं च शकादीनां क्षत्रियाणां महौजसाम्
धर्मान् कुलोचितान् राजा क्रुद्धो निरसद् अच्युतः एतन् नः सर्वम् आचक्ष्व विस्तरेण महामते
बाहोर् व्यसनिनः पूर्वं हृतं राज्यम् अभूत् किल हैहयैस् तालजङ्घैश् च शकैः सार्धं द्विजोत्तमाः
यवनाः पारदाश् चैव काम्बोजाः पह्नवास् तथा एते ह्य् अपि गणाः पञ्च हैहयार्थे पराक्रमन्
हृतराज्यस् तदा राजा स वै बाहुर् वनं ययौ पत्न्या चानुगतो दुःखी तत्र प्राणान् अवासृजत्
पत्नी तु यादवी तस्य सगर्भा पृष्ठतो ऽन्वगात् सपत्न्या च गरस् तस्यै दत्तः पूर्वं किलानघाः
सा तु भर्तुश् चितां कृत्वा वने ताम् अभ्यरोहत और्वस् तां भार्गवो विप्राः कारुण्यात् समवारयत्
तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः व्यजायत महाबाहुः सगरो नाम पार्थिवः
और्वस् तु जातकर्मादींस् तस्य कृत्वा महात्मनः अध्याप्य वेदशास्त्राणि ततो ऽस्त्रं प्रत्यपादयत्
आग्नेयं तु महाभागा अमरैर् अपि दुःसहम् स तेनास्त्रबलेनाजौ बलेन च समन्वितः