वैराजात् पुरुषाद् वीरं शतरूपा व्यजायत प्रियव्रतोत्तानपादौ वीरात् काम्या व्यजायत
काम्या नाम सुता श्रेष्ठा कर्दमस्य प्रजापतेः काम्यापुत्रास् तु चत्वारः सम्राट् कुक्षिर् विराट् प्रभुः
उत्तानपादं जग्राह पुत्रम् अत्रिः प्रजापतिः उत्तानपादाच् चतुरः सूनृता सुषुवे सुतान्
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता उत्पन्ना वाजिमेधेन ध्रुवस्य जननी शुभा
ध्रुवं च कीर्तिमन्तं च आयुष्मन्तं वसुं तथा उत्तानपादो ऽजनयत् सूनृतायां प्रजापतिः
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि भो द्विजाः तपस् तेपे महाभागः प्रार्थयन् सुमहद् यशः
तस्मै ब्रह्मा ददौ प्रीतः स्थानम् आत्मसमं प्रभुः अचलं चैव पुरतः सप्तर्षीणां प्रजापतिः
तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च देवासुराणाम् आचार्यः श्लोकं प्राग् उशना जगौ
अहो ऽस्य तपसो वीर्यम् अहो श्रुतम् अहो ऽद्भुतम् यम् अद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः
तस्माच् छ्लिष्टिं च भव्यं च ध्रुवाच् छंभुर् व्यजायत श्लिष्टेर् आधत्त सुच्छाया पञ्च पुत्रान् अकल्मषान्
रिपुं रिपुंजयं वीरं वृकलं वृकतेजसम् रिपोर् आधत्त बृहती चक्षुषं सर्वतेजसम्
अजीजनत् पुष्करिण्यां वैरिण्यां चाक्षुषं मनुम् प्रजापतेर् आत्मजायां वीरण्यस्य महात्मनः
मनोर् अजायन्त दश नड्वलायां महौजसः कन्यायां मुनिशार्दूला वैराजस्य प्रजापतेः
कुत्सः पुरुः शतद्युम्नस् तपस्वी सत्यवाक् कविः अग्निष्टुद् अतिरात्रश् च सुद्युम्नश् चेति ते नव
अभिमन्युश् च दशमो नड्वलायां महौजसः पुरोर् अजनयत् पुत्रान् षड् आग्नेयी महाप्रभान्
अङ्गं सुमनसं स्वातिं क्रतुम् अङ्गिरसं मयम् अङ्गात् सुनीथापत्यं वै वेणम् एकं व्यजायत
अपचारेण वेणस्य प्रकोपः सुमहान् अभूत् प्रजार्थम् ऋषयो यस्य ममन्थुर् दक्षिणं करम्
वेणस्य मथिते पाणौ संबभूव महान् नृपः तं दृष्ट्वा मुनयः प्राहुर् एष वै मुदिताः प्रजाः
करिष्यति महातेजा यशश् च प्राप्स्यते महत् स धन्वी कवची जातो ज्वलज्ज्वलनसंनिभः
पृथुर् वैण्यस् तथा चेमां ररक्ष क्षत्रपूर्वजः राजसूयाभिषिक्तानाम् आद्यः स वसुधापतिः
तस्माच् चैव समुत्पन्नौ निपुणौ सूतमागधौ तेनेयं गौर् मुनिश्रेष्ठा दुग्धा सस्यानि भूभृता
प्रजानां वृत्तिकामेन देवैः सर्षिगणैः सह पितृभिर् दानवैश् चैव गन्धर्वैर् अप्सरोगणैः
सर्पैः पुण्यजनैश् चैव वीरुद्भिः पर्वतैस् तथा तेषु तेषु च पात्रेषु दुह्यमाना वसुंधरा
प्रादाद् यथेप्सितं क्षीरं तेन प्राणान् अधारयन् पृथोस् तु पुत्रौ धर्मज्ञौ यज्ञान्ते ऽन्तर्धिपातिनौ
शिखण्डिनी हविर्धानम् अन्तर्धानाद् व्यजायत हविर्धानात् षड् आग्नेयी धिषणाजनयत् सुतान्
प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ प्राचीनबर्हिर् भगवान् महान् आसीत् प्रजापतिः
हविर्धानान् मुनिश्रेष्ठा येन संवर्धिताः प्रजाः प्राचीनबर्हिर् भगवान् पृथिवीतलचारिणीः
समुद्रतनयायां तु कृतदारो ऽभवत् प्रभुः महतस् तपसः पारे सवर्णायां प्रजापतिः
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः सर्वान् प्रचेतसो नाम धनुर्वेदस्य पारगान्
अपृथग्धर्मचरणास् ते ऽतप्यन्त महत् तपः दश वर्षसहस्राणि समुद्रसलिलेशयाः