एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने उपासतो ऽग्निं विधिवद् गायत्रीं च महात्मनः
तस्यायुर् ववृधे पुत्र गौतमस्य चिरायुषः न दारसंग्रहं लेभे नैव दातास्ति कन्यकाम्
तथा चरंस् तीर्थदेशे वनेषु विविधेषु च आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः
एवं भ्रमञ् शीतगिरिम् आश्रित्यास्ते स गौतमः तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम्
तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम् चिन्तयंस् तु प्रविष्टो ऽसाव् अपश्यत् स्त्रियम् उत्तमाम्
शिथिलाङ्गीम् अथ कृशां वृद्धां च तपसि स्थिताम् ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम्
स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् नमस्यन्तं मुनिश्रेष्ठं तं गौतमम् अवारयत्
गुरुस् त्वं भविता मह्यं न मां वन्दितुम् अर्हसि आयुर् विद्या धनं कीर्तिर् धर्मः स्वर्गादिकं च यत् तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः
कृताञ्जलिपुटस् तां वै गौतमः प्राह विस्मितः
तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी अल्पविद्यस् त्व् अल्पवया अहं तव गुरुः कथम्
आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः गुणवान् मतिमाञ् शूरः क्षत्रधर्मपरायणः
स कदाचिद् वनं प्रायान् मृगयाकृष्टचेतनः विश्रामम् अकरोद् अस्यां गुहायां स ऋतध्वजः
युवा स मतिमान् दक्षो बलेन महता वृतः तं विश्रान्तं नृपवरम् अप्सरा ददृशे ततः
गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता तां दृष्ट्वा चकमे राजा राजानं चकमे च सा
इति क्रीडा समभवत् तया राज्ञो महामते निवृत्तकामो राजेन्द्रस् ताम् आपृच्छ्यागमद् गृहम्
उत्पन्नाहं ततस् तस्यां सुश्यामायां महामते गच्छन्ती मां तदा माता इदम् आह तपोधन
यस् त्व् अस्यां प्रविशेद् भद्रे स ते भर्ता भविष्यति
इत्य् उक्त्वा सा जगमाथ माता मम महामते तस्माद् अत्र प्रविष्टस् त्वं पुमान् नान्यः कदाचन
सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम अत्रैव च तपस् तप्त्वा ततः स्वर्गम् उपेयिवान्
स्वर्गं याते ऽपि पितरि सहस्राणि तथा दश वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः
स्वर्गे यातो मम भ्राता अहम् अत्रैव संस्थिता अहं ब्रह्मन् नान्यवृत्ता न माता न पिता मम
अहम् आत्मेश्वरी ब्रह्मन् निविष्टा क्षत्रकन्यका तस्माद् भजस्व मां ब्रह्मन् व्रतस्थां पुरुषार्थिनीम्
सहस्रायुर् अहं भद्रे मत्तस् त्वं वयसाधिका अहं बालस् त्वं तु वृद्धा नैवायं घटते मिथः
त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम धात्रा दत्तस् ततस् त्वं मां न निराकर्तुम् अर्हसि
अथवा नेच्छसि मां त्वम् अप्रदुष्टाम् अनुव्रताम् ततस् त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः
अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् अनुरक्तजनत्यागे पातकान्तो न विद्यते
वृद्धायास् तद् वचः श्रुत्वा गौतमो वाक्यम् अब्रवीत्
अहं तपोविरहितो विद्याहीनो ह्य् अकिंचनः नाहं वरो हि योग्यस् ते कुरूपो भोगवर्जितः
अनासो ऽहं किं करोमि अतपोविद्य एव च तस्मात् सुरूपं सुविद्याम् आपाद्य प्रथमं शुभे पश्चात् ते वचनं कार्यं ततो वृद्धाब्रवीद् द्विजम्
मया सरस्वती देवी तोषिता तपसा द्विज तथैवापो रूपवत्यो रूपदाताग्निर् एव च