ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता
नदीनां प्रवरा रम्या चामृता प्रेरिता तहा तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च
तत्र शंभुः स्वयं तस्थौ सर्वदा सुरपूजितः तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक् पृथक्
वरान् ददुर् मुदा युक्ता यथा पूजाम् अवाप्स्यति शंभुः सुरपतिर् लोके तथा पूजाम् अवाप्स्यसि
निवासं कुरु देवि त्वं लोकानां हितकाम्यया सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा
स्तवनात् कीर्तनाद् ध्यानात् सर्वकामप्रदायिनी त्वां नमस्यन्ति ये भक्त्या किंचिद् आपेक्ष्य सर्वदा
तेषां सर्वाणि कार्याणि भवेयुर् देवताज्ञया शिवशक्त्योर् यतस् तस्मिन् निवासो ऽभूत् सनातनः
अतो वदन्ति मुनयो निवासपुरम् इत्य् अदः प्रवरायाः पुरा देवाः सुप्रीतास् ते वरान् ददुः
गङ्गायाः संगमो यस् ते विख्यातः सुरवल्लभः तत्राप्लुतानां सर्वेषां भुक्तिर् वा मुक्तिर् एव च
यद् वापि मनसः काम्यं देवानाम् अपि दुर्लभम् स्यात् तेषां सर्वम् एवेह एवं दत्त्वा सुरा ययुः
ततः प्रभृति तत् तीर्थं प्रवरासंगमं विदुः प्रेरिता देवदेवेन शक्तिर् या प्रेरिता तु सा
अमृता सैव विख्याता प्रवरैवं महानदी
वृद्धासंगमम् आख्यातं यत्र वृद्धेश्वरः शिवः तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम्
गौतमो वृद्ध इत्य् उक्तो मुनिर् आसीन् महातपाः यदा पुराभवद् बालो गौतमस्य सुतो द्विजः
अनासः स पुरोत्पन्नस् तस्माद् विकृतरूपधृक् स वैराग्याज् जगामाथ देशं तीर्थम् इतस् ततः
उपाध्यायेन नैवासील् लज्जितस्य समागमः शिष्यैर् अन्यैः सहाध्यायो लज्जितस्य च नाभवत्
उपनीतः कथंचिच् च पित्रा वै गौतमेन सः एतावता गौतमो ऽपि व्यगमच् चरितुं बहिः
एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे नैव चाध्ययनं तस्य संजातं गौतमस्य हि
नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत् तदा अग्निकार्यं ततश् चक्रे नित्यम् एव यतव्रतः
गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा
एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने उपासतो ऽग्निं विधिवद् गायत्रीं च महात्मनः
तस्यायुर् ववृधे पुत्र गौतमस्य चिरायुषः न दारसंग्रहं लेभे नैव दातास्ति कन्यकाम्
तथा चरंस् तीर्थदेशे वनेषु विविधेषु च आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः
एवं भ्रमञ् शीतगिरिम् आश्रित्यास्ते स गौतमः तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम्
तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम् चिन्तयंस् तु प्रविष्टो ऽसाव् अपश्यत् स्त्रियम् उत्तमाम्
शिथिलाङ्गीम् अथ कृशां वृद्धां च तपसि स्थिताम् ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम्
स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् नमस्यन्तं मुनिश्रेष्ठं तं गौतमम् अवारयत्
गुरुस् त्वं भविता मह्यं न मां वन्दितुम् अर्हसि आयुर् विद्या धनं कीर्तिर् धर्मः स्वर्गादिकं च यत् तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः
कृताञ्जलिपुटस् तां वै गौतमः प्राह विस्मितः
तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी अल्पविद्यस् त्व् अल्पवया अहं तव गुरुः कथम्