द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः न विश्वास्या न चाख्येया नैव मन्त्र्याश् च शत्रवः
तेभ्यो न देयम् अमृतं भवेयुर् अमरास् ततः अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु ताञ् जेतुं नैव शक्ष्यामो न देयम् अमृतं ततः
इति संमन्त्र्य ते देवा वाचस्पतिम् अथाब्रुवन्
क्व यामः कुत्र मन्त्रः स्यात् क्व पिबामः क्व संस्थितिः कुर्मस् तद् एव प्रथमं वद वाचस्पते तथा
यान्तु ब्रह्माणम् अमराः पृच्छन्त्व् अत्र गतिं पराम् स तु ज्ञाता च वक्ता च दाता चैव पितामहः
बृहस्पतेर् वचः श्रुत्वा मदन्तिकम् अथागमन् नमस्य मां सुराः सर्वे यद् वृत्तं तन् न्यवेदयन्
तद् देववचनात् पुत्र तैः सुरैर् अगमं हरिम् विष्णवे कथितं सर्वं शंभवे विषहारिणे
अहं विष्णुश् च शंभुश् च देवगन्धर्वकिंनरैः मेरुकन्दरम् आगत्य न जानन्ति यथासुराः
रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे आदित्यस् तत्र विज्ञाता सोमभोज्यान् अथेतरान्
सोमो दातामृतं भागं चक्रधृग् रक्षकस् तथा नैव जानन्ति तद् दैत्या दनुजा राक्षसास् तथा
विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम् कामरूपधरो राहुर् मरुतां मध्यम् आविशत्
मरुद्रूपं समास्थाय पानपात्रधरस् तथा ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत्
तदा तद् अमृतं तस्मै दैत्यायादैत्यरूपिणे दत्त्वा सोमं तदा सोमो विष्णवे तन् न्यवेदयत्
विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः चिच्छेद तरसा वत्स तच्छिरस् त्व् अमरं त्व् अभूत्
शिरोमात्रविहीनं यद् देहं तद् अपतद् भुवि देहं तद् अमृतस्पृष्टं पतितं दक्षिणे तटे
गौतम्या मुनिशार्दूल कम्पयद् वसुधातलम् देहं चाप्य् अमरं पुत्र तद् अद्भुतम् इवाभवत्
देहं च शिरसो ऽपेक्षि शिरो देहम् अपेक्षते उभयं चामरं जातं दैत्यश् चायं महाबलः
शिरः काये समाविष्टं सर्वान् भक्षयते सुरान् तस्माद् देहम् इदं पूर्वं नाशयामो महीगतम् ततस् ते शंकरं प्राहुर् देवाः सर्वे ससंभ्रमाः
महीगतं दैत्यदेहं नाशयस्व सुरोत्तम त्वं देव करुणासिन्धुः शरणागतरक्षकः
शिरसा नैव युज्येत दैत्यदेहं तथा कुरु
प्रेषयाम् आस चेशो ऽपि श्रेष्ठां शक्तिं तदात्मनः मातृभिः सहितां देवीं मातरं लोकपालिनीम्
ईशायुधधरा देवी ईशशक्तिसमन्विता महीगतं यत्र देहं तत्रागाद् भक्ष्यकाङ्क्षिणी
शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन् देहो देव्या पुनस् तत्र युयुधे बहवः समाः
राहुस् तत्र सुरान् आह भित्त्वा देहं पुरा मम अत्रास्ते रसम् उत्कृष्टं तद् आकृष्य शरीरतः
पृथक्भूते रसे देहं प्रवरे ऽमृतम् उत्तमम् भस्मीभूयात् क्षणेनैव तस्मात् कुर्वन्तु तत् पुरा
एतद् राहुवचः श्रुत्वा प्रीताः सर्वे ऽसुरारयः अभ्यषिञ्चन् ग्रहाणां त्वं ग्रहो भूया मुदान्वितः
तद्देववचनाच् छक्तिर् ईश्वरी या निगद्यते देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता
आकृष्य शीघ्रम् उत्कृष्टं प्रवरं चामृतं बहिः स्थापयित्वा तु तद् देहं भक्षयाम् आस चाम्बिका
कालरात्रिर् भद्रकाली प्रोच्यते या महाबला स्थापितं रसम् उत्कृष्टं रसानां प्रवरं रसम्
व्यस्रवत् स्थापितं तत् तु प्रवरा साभवन् नदी आकृष्टम् अमृतं चैव स्थापितं साप्य् अभक्षयत्