मन्त्रैः स्तोत्रैः स्तुवन्तस् ते मुदं यान्तु शिवे रताः एनं रक्षन्तु मुनयो देवाश् च हविषो भुजः
तथेत्य् ऊचुश् च मुनयो मेने च नृपसत्तमः ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम्
स्नात्वा तुष्टाव तान् देवान् ये तत्र हविषो भुजः ततस् तुष्टाः सुरगणाः शुनःशेपं च ते मुने अवदन्त सुराः सर्वे विश्वामित्रस्य शृण्वतः
क्रतुः पूर्णो भवत्व् एष शुनःशेपवधं विना
विशेषेणाथ वरुणश् चावदन् नृपसत्तमम् ततः पूर्णो ऽभवद् राज्ञो नृमेधो लोकविश्रुतः
देवानां च प्रसादेन मुनीनां च प्रसादतः तीर्थस्य तु प्रसादेन राज्ञः पूर्णो ऽभवत् क्रतुः
विश्वामित्रः शुनःशेपं पूजयाम् आस संसदि अकरोद् आत्मनः पुत्रं पूजयित्वा सुरान्तिके
ज्येष्ठं चकार पुत्राणाम् आत्मनः स तु कौशिकः न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः
शुनःशेपस्य च ज्यैष्ठ्यं ताञ् शशाप स कौशिकः ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयाम् आस तान् सुतान्
वरेण मुनिशार्दूलस् तद् एतत् कथितं मया एतत् सर्वं यत्र जातं गौतम्या दक्षिणे तटे
तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः बहूनि तेषां नामानि मत्तः शृणु महामते
हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम् इत्याद्य् अष्ट सहस्राणि तीर्थान्य् अथ चतुर्दश
तेषु स्नानं च दानं च नरमेधफलप्रदम् आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम
यः पठेत् पाठयेद् वापि शृणुयाद् वापि भक्तितः अपुत्रः पुत्रम् आप्नोति यच् चान्यन् मनसः प्रियम्
सोमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम् तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद
सोमो राजामृतमयो गन्धर्वाणां पुराभवत् न देवानां तदा देवा माम् अभ्येत्येदम् अब्रुवन्
गन्धर्वैर् आहृतः सोमो देवानां प्राणदः पुरा तम् अध्यायन् सुरगणा ऋषयस् त्व् अतिदुःखिताः यथा स्यात् सोमो ह्य् अस्माकं तथा नीतिर् विधीयताम्
तत्र वाग् विबुधान् आह गन्धर्वाः स्त्रीषु कामुकाः तेभ्यो दत्त्वाथ मां देवाः सोमम् आहर्तुम् अर्हथ
वाचं प्रत्यूचुर् अमरास् त्वां दातुं न क्षमा वयम् विना तेनापि न स्थातुं शक्यं नैव त्वया विना
पुनर् वाग् अब्रवीद् देवान् पुनर् एष्याम्य् अहं त्व् इह अत्र बुद्धिर् विधातव्या क्रियतां क्रतुर् उत्तमः
गौतम्या दक्षिणे तीरे भवेद् देवागमो यदि मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः
गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह तथेत्य् उक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः
देवदूतैः पृथग् देवान् यक्षान् गन्धर्वपन्नगान् आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा
ततो देवगिरिर् नाम पर्वतस्याभवन् मुने तत्रागमन् सुरगणा गन्धर्वा यक्षकिंनराः
देवाः सिद्धाश् च ऋषयस् तथाष्टौ देवयोनयः ऋषिभिर् गौतमीतीरे क्रियमाणे महाध्वरे
तत्र देवैः परिवृतः सहस्राक्षो ऽभ्यभाषत
गन्धर्वान् अथ संपूज्य सरस्वत्याः समीपतः सरस्वत्या पणध्वं नो युष्माकम् अमृतात्मना
तच् छक्रवचनात् ते वै गन्धर्वाः स्त्रीषु कामुकाः सोमं दत्त्वा सुरेभ्यस् तु जगृहुस् तां सरस्वतीम्
सोमो ऽभवच् चामराणां गन्धर्वाणां सरस्वती अवसत् तत्र वागीशा तथापि च सुरान्तिके
आयाति च रहो नित्यम् उपांशु क्रियताम् इति अत एव हि सोमस्य क्रयो भवति नारद