वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने
तथेत्य् उक्त्वा त्व् अजीगर्तः पुत्रमूल्यम् अकल्पयत् गवां सहस्रं धान्यानां निष्कानां चापि वाससाम् राजपुत्र वरं देहि दास्यामि स्वसुतं तव
तथेत्य् उक्त्वा रोहितो ऽपि प्रादात् सवसनं धनम् दत्त्वा जगाम पितरम् ऋषिपुत्रेण रोहितः पित्रे निवेदयाम् आस क्रयक्रीतम् ऋषेः सुतम्
वरुणाय यजस्व त्वं पशुना त्वम् अरुग् भव
तथोवाच हरिश्चन्द्रः पुत्रवाक्याद् अनन्तरम्
ब्राह्मणाः क्षत्रिया वैश्या राज्ञा पाल्या इति श्रुतिः विशेषतस् तु वर्णानां गुरवो हि द्विजोत्तमाः
विष्णोर् अपि हि ये पूज्या मादृशाः कुत एव हि अवज्ञयापि येषां स्यान् नृपाणां स्वकुलक्षयः
तान् पशून् कृत्वा कृपणं कथं रक्षितुम् उत्सहे अहं च ब्राह्मणं कुर्यां पशुं नैतद् धि युज्यते
वरं हि जातु मरणं न कथंचिद् द्विजं पशुम् करोमि तस्मात् पुत्र त्वं ब्राह्मणेन सुखं व्रज
एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी
गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः पशुना विप्रपुत्रेण रोहितेन सुतेन च
त्वया कार्यः क्रतुश् चैव शुनःशेपवधं विना क्रतुः पूर्णो भवेत् तत्र तस्माद् याहि महामते
तच् छ्रुत्वा वचनं शीघ्रं गङ्गाम् अगान् नृपोत्तमः विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा
वामदेवेन ऋषिणा तथान्यैर् मुनिभिः सह प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः
वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत् कृत्वा सर्वं यथान्यायं तस्मिन् यज्ञे प्रवर्तिते
शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम् वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रो ऽब्रवीद् इदम्
देवान् ऋषीन् हरिश्चन्द्रं रोहितं च विशेषतः अनुजानन्त्व् इमं सर्वे शुनःशेपं द्विजोत्तमम्
येभ्यस् त्व् अयं हविर् देयो देवेभ्यो ऽयं पृथक् पृथक् अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः
वसाभिर् लोमभिस् त्वग्भिर् मांसैः सन्मन्त्रितैर् मखे अग्नौ होष्यः पशुश् चायं शुनःशेपो द्विजोत्तमः
उपासिताः स्युर् विप्रेन्द्रास् ते सर्वे त्व् अनुमन्य माम् गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान् पृथक् पृथक्
मन्त्रैः स्तोत्रैः स्तुवन्तस् ते मुदं यान्तु शिवे रताः एनं रक्षन्तु मुनयो देवाश् च हविषो भुजः
तथेत्य् ऊचुश् च मुनयो मेने च नृपसत्तमः ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम्
स्नात्वा तुष्टाव तान् देवान् ये तत्र हविषो भुजः ततस् तुष्टाः सुरगणाः शुनःशेपं च ते मुने अवदन्त सुराः सर्वे विश्वामित्रस्य शृण्वतः
क्रतुः पूर्णो भवत्व् एष शुनःशेपवधं विना
विशेषेणाथ वरुणश् चावदन् नृपसत्तमम् ततः पूर्णो ऽभवद् राज्ञो नृमेधो लोकविश्रुतः
देवानां च प्रसादेन मुनीनां च प्रसादतः तीर्थस्य तु प्रसादेन राज्ञः पूर्णो ऽभवत् क्रतुः
विश्वामित्रः शुनःशेपं पूजयाम् आस संसदि अकरोद् आत्मनः पुत्रं पूजयित्वा सुरान्तिके
ज्येष्ठं चकार पुत्राणाम् आत्मनः स तु कौशिकः न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः
शुनःशेपस्य च ज्यैष्ठ्यं ताञ् शशाप स कौशिकः ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयाम् आस तान् सुतान्
वरेण मुनिशार्दूलस् तद् एतत् कथितं मया एतत् सर्वं यत्र जातं गौतम्या दक्षिणे तटे