राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः पशोर् दन्तेषु जातेषु एहि गच्छाधुनाप्पते
तच् छ्रुत्वा राजवचनं पुनः प्रायाद् अपांपतिः जातेषु चैव दन्तेषु सप्तवर्षेषु नारद
पुनर् अप्य् आह राजानं यजस्वेति ततो ऽब्रवीत् राजापि वरुणं प्राह पत्स्यन्तीमे अपांपते
संपत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद यजस्वेति नृपं प्राह राजा प्राह त्व् अपांपतिम्
यदा तु क्षत्रियो यज्ञे पशुर् भवति वारिप धनुर्वेदं यदा वेत्ति तदा स्यात् पशुर् उत्तमः
तच् छ्रुत्वा राजवचनं वरुणो ऽगात् स्वम् आलयम् यदास्त्रेषु च शस्त्रेषु समर्थो ऽभूत् स रोहितः
सर्ववेदेषु शास्त्रेषु वेत्ताभूत् स त्व् अरिंदमः युवराज्यम् अनुप्राप्ते रोहिते षोडशाब्दिके
प्रीतिमान् अगमत् तत्र यत्र राजा सरोहितः आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम्
ॐ इत्य् उक्त्वा नृपवर ऋत्विजः प्राह भूपतिः रोहितं च सुतं ज्येष्ठं शृण्वतो वरुणस्य च
एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि
किम् एतद् इत्य् अथोवाच रोहितः पितरं प्रति पितापि तद् यथावृत्तम् आचचक्षे सविस्तरम् रोहितः पितरं प्राह शृण्वतो वरुणस्य च
अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः विष्णवे लोकनाथाय यक्ष्ये ऽहं त्वरितं शुचिः पशुना वरुणेनाथ तद् अनुज्ञातुम् अर्हसि
रोहितस्य तु तद् वाक्यं श्रुत्वा वारीश्वरस् तदा कोपेन महताविष्टो जलोदरम् अथाकरोत्
हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ गृहीत्वा स धनुर् दिव्यं रथारूढो गतव्यथः
यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः गङ्गायां प्राप्तवान् पुत्रं तत्रागात् सो ऽपि रोहितः
व्यतीतान्य् अथ वर्षाणि पञ्च षष्ठे प्रवर्तति तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम्
मया पुत्रेण जातेन पितुर् वै क्लेशकारिणा किं फलं किं नु कृत्यं स्याद् इत्य् एवं पर्यचिन्तयत्
तस्यास् तीरे ऋषीन् पुण्यान् अपश्यन् नृपतेः सुतः गङ्गातीरे वर्तमानम् अपश्यद् ऋषिसत्तमम्
अजीगर्तम् इति ख्यातम् ऋषेस् तु वयसः सुतम् त्रिभिः पुत्रैर् अनुवृतं भार्यया क्षीणवृत्तिकम् तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचो ऽब्रवीत्
क्षीणवृत्तिः कृशः कस्माद् दुर्मना इव लक्ष्यसे
अजीगर्तो ऽपि चोवाच रोहितं नृपतेः सुतम्
वर्तनं नास्ति देहस्य भोक्तारो बहवश् च मे विनान्नेन मरिष्यामो ब्रूहि किं करवामहे
तच् छ्रुत्वा पुनर् अप्य् आह नृपपुत्र ऋषिं तदा
तव किं वर्तते चित्ते तद् ब्रूहि वदतां वर
हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः
सुता मे सन्ति भार्या च अहं वै पञ्चमस् तथा नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम
किं क्रीणासि महाबुद्धे ऽजीगर्त सत्यम् एव मे वद नान्यच् च वक्तव्यं विप्रा वै सत्यवादिनः
त्रयाणाम् अपि पुत्राणाम् एकं वा मां तथैव च भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम्
किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा युवानं देहि पुत्रं मे पुत्राणां यं त्वम् इच्छसि
ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित माता कनीयसं चापि न क्रीणाति ततो ऽनयोः मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम्