संगतानि च पुण्यानि पञ्च नद्यः सरस्वती तेषु स्नानं तथा दानं यत् किंचित् कुरुते नरः
सर्वकामप्रदं तत् स्यान् नैष्कर्म्यान् मुक्तिदं स्मृतम् तत्राभवन् मृगव्याधं तीर्थं सर्वार्थदं नृणाम् स्वर्गमोक्षफलं चान्यद् ब्रह्मतीर्थफलं स्मृतम्
शमीतीर्थम् इति ख्यातं सर्वपापोपशान्तिदम् तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद
आसीत् प्रियव्रतो नाम क्षत्रियो जयतां वरः गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा
हयमेध उपक्रान्ते ऋत्विग्भिर् ऋषिभिर् वृते तस्य राज्ञो महाबाहोर् वसिष्ठस् तु पुरोहितः
तद्यज्ञवाटम् अगमद् दानवो ऽथ हिरण्यकः तं दानवम् अभिप्रेक्ष्य देवास् त्व् इन्द्रपुरोगमाः
भीताः केचिद् दिवं जग्मुर् हव्यवाट् शमिम् आविशत् अश्वत्थं विष्णुर् अगमद् भानुर् अर्कं वटं शिवः
सोमः पलाशम् अगमद् गङ्गाम्भो हव्यवाहनः अश्विनौ तु हयं गृह्य वायसो ऽभूद् यमः स्वयम्
एतस्मिन्न् अन्तरे तत्र वसिष्ठो भगवान् ऋषिः यष्टिम् आदाय दैतेयान् न्यवारयद् अथाज्ञया
ततः प्रवृत्तः पुनर् एव यज्ञो दैत्यो गतः स्वेन बलेन युक्तः इमानि तीर्थानि ततः शुभानि दशाश्वमेधस्य फलानि दद्युः
प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम्
देवाश् च ऋषयः सर्वे निवृत्ते मखविस्तरे तुष्टाः प्रोचुर् वसिष्ठं तं यजमानं प्रियव्रतम्
तांश् च वृक्षांस् तां च गङ्गां मुदा युक्ताः पुनः पुनः हयमेधस्य निष्पत्त्यै एते याता इतस् ततः
हयमेधफलं दद्युस् तीर्थानीत्य् अवदन् सुराः तस्मात् स्नानेन दानेन तेषु तीर्थेषु नारद हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः
विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम् वारुणं ब्राह्मम् आग्नेयम् ऐन्द्रम् ऐन्दवम् ऐश्वरम्
मैत्रं च वैष्णवं चैव याम्यम् आश्विनम् औशनम् एतेषां पुण्यतीर्थानां नामधेयं शृणुष्व मे
हरिश्चन्द्र इति त्व् आसीद् इक्ष्वाकुप्रभवो नृपः तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस् तथा कृत्वातिथ्यं तयोः सम्यग् घरिश्चन्द्रो ऽब्रवीद् ऋषी
पुत्रार्थं क्लिश्यते लोकः किं पुत्रेण भविष्यति ज्ञानी वाप्य् अथवाज्ञानी उत्तमो मध्यमो ऽथवा एतं मे संशयं नित्यं ब्रूताम् ऋषिवराव् उभौ
ताव् ऊचतुर् हरिश्चन्द्रं पर्वतो नारदस् तथा
एकधा दशधा राजञ् शतधा च सहस्रधा उत्तरं विद्यते सम्यक् तथाप्य् एतद् उदीर्यते
नापुत्रस्य परो लोको विद्यते नृपसत्तम जाते पुत्रे पिता स्नानं यः करोति जनाधिप
दशानाम् अश्वमेधानाम् अभिषेकफलं लभेत् आत्मप्रतिष्ठा पुत्रात् स्याज् जायते चामरोत्तमः
अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः त्रिऋणान् मोचयेत् पुत्रः पितरं च पितामहान्
किं तु मूलं किम् उ जलं किं तु श्मश्रूणि किं तपः विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात् स्मृताः
पुत्र एव परो लोको धर्मः कामो ऽर्थ एव च पुत्रो मुक्तिः परं ज्योतिस् तारकः सर्वदेहिनाम्
विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ पुत्र एव परो लोके धर्मकामार्थसिद्धये
विना पुत्रेण यद् दत्तं विना पुत्रेण यद् धुतम् विना पुत्रेण यज् जन्म व्यर्थं तद् अवभाति मे
तस्मात् पुत्रसमं किंचित् काम्यं नास्ति जगत्त्रये तच् छ्रुत्वा विस्मयवांस् ताव् उवाच नृपः पुनः
कथं मे स्यात् सुतो ब्रूतां यत्र क्वापि यथातथम् येन केनाप्य् उपायेन कृत्वा किंचित् तु पौरुषम् मन्त्रेण यागदानाभ्याम् उत्पाद्यो ऽसौ सुतो मया
ताव् ऊचतुर् नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम् ध्यात्वा क्षणं तथा सम्यग् गौतमीं याहि मानद