भार्यान्वितस् तथा चक्रे कश्यपो मुनिसत्तमः ततः प्रभृति तत् तीर्थम् उभयोः संगमं विदुः सर्वपापप्रशमनं सर्वक्रतुफलप्रदम्
पुरूरवसम् आख्यातं तीर्थं वेदविदो विदुः स्मरणाद् एव पापानां नाशनं किं तु दर्शनात्
पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् यदृच्छया देवनदीं हसन्तीं ब्रह्मणो ऽन्तिके तां दृष्ट्वा रूपसंपन्नाम् उर्वशीं प्राह भूपतिः
केयं रूपवती साध्वी स्थितेयं ब्रह्मणो ऽन्तिके सर्वासाम् उत्तमा योषिद् दीपयन्ती सभाम् इमाम्
उर्वशी प्राह राजानम् इयं देवनदी शुभा सरस्वती ब्रह्मसुता नित्यम् एति च याति च तच् छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम्
उर्वशी पुनर् अप्य् आह राजानं भूरिदक्षिणम्
आनीयते महाराज तस्याः सर्वं निवेद्य च
ततस् तां प्राहिणोत् तत्र राजा प्रीत्या तदोर्वशीम् सा गत्वा राजवचनं न्यवेदयद् अथोर्वशी
सरस्वत्य् अपि तन् मेने उर्वश्या यन् निवेदितम् सा तथेति प्रतिज्ञाय प्रायाद् यत्र पुरूरवाः
सरस्वत्यास् ततस् तीरे स रेमे बहुलाः समाः सरस्वान् अभवत् पुत्रो यस्य पुत्रो बृहद्रथः
तां गच्छन्तीं नृपगृहं नित्यम् एव सरस्वतीम् सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम्
तस्यै ददाव् अहं शापं भूया इति महानदी मच्छापभीता वागीशा प्रागाद् देवीं च गौतमीम्
कमण्डलुभवां पूतां मातरं लोकपावनीम् तापत्रयोपशमनीम् ऐहिकामुष्मिकप्रदाम्
सा गत्वा गौतमीं देवीं प्राह मच्छापम् आदितः गङ्गापि माम् उवाचेदं विशापां कर्तुम् अर्हसि
न युक्तं यत् सरस्वत्याः शापं त्वं दत्तवान् असि स्त्रीणाम् एष स्वभावो वै पुंस्कामा योषितो यतः
स्वभावचपला ब्रह्मन् योषितः सकला अपि त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन
विडम्बयति कं वा न कामो वापि स्वभावतः ततो विशापम् अवदं दृश्यापि स्यात् सरस्वती
तस्माच् छापान् नदी मर्त्ये दृश्यादृश्या सरस्वती यत्रैषा संगता देवी गङ्गायां शापविह्वला
तत्र प्रायान् नृपवरो धार्मिकः स पुरूरवाः तपस् तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम्
सर्वान् कामान् अथावाप गङ्गायाश् च प्रसादतः ततः प्रभृति तत् तीर्थं पुरूरवसम् उच्यते
सरस्वतीसंगमं च ब्रह्मतीर्थं तद् उच्यते सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत्
सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः
तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात् सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती
एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः सर्वासाम् उत्तमां कांचिन् निर्ममे लोकसुन्दरीम्
तां दृष्ट्वा विकृता बुद्धिर् ममासीन् मुनिसत्तम गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता
मृगीभूता तु सा बाला मृगो ऽहम् अभवं तदा मृगव्याधो ऽभवच् छंभुर् धर्मसंरक्षणाय च
ता मद्भीताः पञ्च सुता गङ्गाम् ईयुर् महानदीम् ततो महेश्वरः प्रायाद् धर्मसंरक्षणाय सः
धनुर् गृहीत्वा सशरम् ईशो ऽपि मृगरूपिणम् माम् उवाच वधिष्ये त्वां मृगव्याधस् तदा हरः
तत्कर्मणो निवृत्तो ऽहं प्रादां कन्यां विवस्वते सावित्र्याद्याः पञ्च सुता नदीरूपेण संगताः
ता आगताः पुनश् चापि स्वर्गं लोकं ममान्तिकम् यत्र ताः संगता देव्या पञ्च तीर्थानि नारद