सुपर्णासंगमं नाम काद्रवासंगमं तथा महेश्वरो यत्र देवो गङ्गापुलिनम् आश्रितः
अग्निकुण्डं च तत्रैव रौद्रं वैष्णवम् एव च सौरं सौम्यं तथा ब्राह्मं कौमारं वारुणं तथा
अप्सरा च नदी यत्र संगता गङ्गया तथा तत्तीर्थस्मरणाद् एव कृतकृत्यो भवेन् नरः
सर्वपापप्रशमनं शृणु यत्नेन नारद इन्द्रेण हिंसिताः पूर्वं वालखिल्या महर्षयः दत्तार्धतपसः सर्वे प्रोचुस् ते काश्यपं मुनिम्
पुत्रम् उत्पादयानेन इन्द्रदर्पहरं शुभम् तपसो ऽर्धं तु दास्यामस् तथेत्य् आह मुनिस् तु तान्
सुपर्णायां ततो गर्भम् आदधे स प्रजापतिः कद्र्वां चैव शनैर् ब्रह्मन् सर्पाणां सर्पमातरि
ते गर्भिण्याव् उभे आह गन्तुकामः प्रजापतिः अपराधो न च क्वापि कार्यो गमनम् एव च
अन्यत्र गमनाच् छापो भविष्यति न संशयः
इत्य् उक्त्वा स ययौ पत्न्यौ गते भर्तरि ते उभे तदैव जग्मतुः सत्त्रम् ऋषीणां भावितात्मनाम्
ब्रह्मवृन्दसमाकीर्णं गङ्गातीरसमाश्रितम् उन्मत्ते ते उभे नित्यं वयःसंपत्तिगर्विते
निवार्यमाणे बहुशो मुनिभिस् तत्त्वदर्शिभिः विकुर्वत्यौ तत्र सत्त्रे समानि च हवींषि च
योषितां दुर्विलसितं कः संवरितुम् ईश्वरः ते दृष्ट्वा चुक्षुभुर् विप्रा अपमार्गरते उभे
अपमार्गस्थिते यस्माद् आपगे हि भविष्यथः सुपर्णा चैव कद्रूश् च नद्यौ ते संबभूवतुः
स कदाचिद् गृहं प्रायात् कश्यपो ऽथ प्रजापतिः ऋषिभ्यस् तत्र वृत्तान्तं शापं ताभ्यां सविस्तरम्
श्रुत्वा तु विस्मयाविष्टः किं करोमीत्य् अचिन्तयत् ऋषिभ्यः कथयाम् आस वालखिल्या इति श्रुताः
त ऊचुः कश्यपं विप्रं गत्वा गङ्गां तु गौतमीम् तत्र स्तुहि महेशानं पुनर् भार्ये भविष्यतः
ब्रह्महत्याभयाद् एव यत्र देवो महेश्वरः गङ्गामध्ये सदा ह्य् आस्ते मध्यमेश्वरसंज्ञया
तथेत्य् उक्त्वा कश्यपो ऽपि स्नात्वा गङ्गां जितव्रतः तुष्टाव स्तवनैः पुण्यैर् देवदेवं महेश्वरम्
लोकत्रयैकाधिपतेर् न यस्य कुत्रापि वस्तुन्य् अभिमानलेशः स सिद्धनाथो ऽखिलविश्वकर्ता भर्ता शिवाया भवतु प्रसन्नः
तापत्रयोष्णद्युतितापितानाम् इतस् ततो वै परिधावतां च शरीरिणां स्थावरजङ्गमानां त्वम् एव दुःखव्यपनोददक्षः
सत्त्वादियोगस् त्रिविधो ऽपि यस्य शक्रादिभिर् वक्तुम् अशक्य एव विचित्रवृत्तिं परिचिन्त्य सोमं सुखी सदा दानपरो वरेण्यः
इत्यादिस्तुतिभिर् देवः स्तुतो गौरीपतिः शिवः प्रसन्नो ह्य् अददाच् छंभुः कश्यपाय वरान् बहून्
भार्यार्थिनं तु तं प्राह स्यातां भार्ये उभे तु ते नदीस्वरूपे पत्न्यौ ये गङ्गां प्राप्य सरिद्वराम्
तत्संगमनमात्रेण ताभ्यां भूयात् स्वकं वपुः ते गर्भिण्यौ पुनर् जाते गङ्गायाश् च प्रसादतः
ततः प्रजापतिः प्रीतो भार्ये प्राप्य महामनाः आह्वयाम् आस तान् विप्रान् गौतमीतीरम् आश्रितान्
सीमन्तोन्नयनं चक्रे ताभ्यां प्रीतः प्रजापतिः ब्राह्मणान् पूजयाम् आस विधिदृष्टेन कर्मणा
भुक्तवत्स्व् अथ विप्रेषु कश्यपस्याथ मन्दिरे भर्तृसमीपोपविष्टा कद्रूर् विप्रान् निरीक्ष्य च
ततः कद्रूर् ऋषीन् अक्ष्णा प्राहसत् ते च चुक्षुभुः येनाक्ष्णा हसिता पापे भज्यतां ते ऽक्षि पापवत्
काणाभवत् ततः कद्रूः सर्पमातेति योच्यते ततः प्रसादयाम् आस कश्यपो भगवान् ऋषीन्
ततः प्रसन्नास् ते प्रोचुर् गौतमी सरितां वरा अपराधसहस्रेभ्यो रक्षिष्यति च सेवनात्