मृते भ्रातरि स त्व् अग्निः प्रिये वै जातवेदसि कोपेन महताविष्टो गाङ्गम् अम्भः समाविशत्
गङ्गाम्भसि समाविष्टे ह्य् अग्नौ देवाश् च मानुषाः जीवम् उत्सर्जयाम् आसुर् अग्निजीवा यतो मताः
यत्राग्निर् जलम् आविष्टस् तं देशं सर्व एव ते आजग्मुर् विबुधाः सर्व ऋषयः पितरस् तथा
विनाग्निना न जीवामः स्तुवन्तो ऽग्निं विशेषतः अग्निं जलगतं दृष्ट्वा प्रियं चोचुर् दिवौकसः
देवाञ् जीवय हव्येन कव्येन च पितॄंस् तथा मानुषान् अन्नपाकेन बीजानां क्लेदनेन च
अग्निर् अप्य् आह तान् देवाञ् शक्तो यो मे गतो ऽनुजः क्रियमाणे भवत्कार्ये या गतिर् जातवेदसः
सा वापि स्यान् मम सुरा नोत्सहे कार्यसाधने कार्यं तु सर्वतस् तस्य भवतां जातवेदसः
इमां स्थितिम् अनुप्राप्तो न जाने मे कथं भवेत् इह चामुत्र च व्याप्तौ शक्तिर् अप्य् अत्र नो भवेत्
अथापि क्रियमाणे वै कार्ये सैव गतिर् मम देवास् तम् ऊचुर् भावेन सर्वेण ऋषयस् तथा
आयुः कर्मणि च प्रीतिर् व्याप्तौ शक्तिश् च दीयते प्रयाजान् अनुयाजांश् च दास्यामो हव्यवाहन
देवानां त्वं मुखं श्रेष्ठम् आहुत्यः प्रथमास् तव त्वया दत्तं तु यद् द्रव्यं भोक्ष्यामः सुरसत्तम
ततस् तुष्टो ऽभवद् वह्निर् देववाक्याद् यथाक्रमम् इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा
सर्वत्र वह्निर् अभयः समर्थो ऽभूत् सुराज्ञया जातवेदा बृहद्भानुः सप्तार्चिर् नीललोहितः
जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते जलाद् आकृष्य विबुधा अभिषिच्य विभावसुम्
उभयत्र पदे वासः सर्वगो ऽग्निस् ततो ऽभवत् यथागतं सुरा जग्मुर् वह्नितीर्थं तद् उच्यते
तत्र सप्त शतान्य् आसंस् तीर्थानि गुणवन्ति च तेषु स्नानं च दानं च यः करोति जितात्मवान्
अश्वमेधफलं साग्रं प्राप्नोत्य् अविकलं शुभम् देवतीर्थं च तत्रैव आग्नेयं जातवेदसम्
अग्निप्रतिष्ठितं लिङ्गं तत्रास्ते ऽनेकवर्णवत् तद्देवदर्शनाद् एव सर्वक्रतुफलं लभेत्
ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः
आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः न दारसंग्रहं लेभे वैराग्यान् नाग्निपूजनम्
कनीयांस् तु समर्थो ऽपि परिवित्तिभयान् मुने नाकरोद् दारकर्मादि नैवाग्नीनाम् उपासनम्
ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः
ऋणत्रयापनोदाय क्रियतां दारसंग्रहः
नेत्य् उवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते कनीयांस् तु पितॄन् प्राह न योग्यो दारसंग्रहः
ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति ताव् उभौ पुनर् अप्य् एवम् ऊचुस् ते वै पितामहाः
याताम् उभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम्
गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ
दृष्टावनामिता ध्याता गौतमी सर्वकामदा न देशकालजात्यादिनियमो ऽत्रावगाहने ज्येष्ठो ऽनृणस् ततो भूयात् परिवित्तिर् न चेतरः
ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् त्रयाणाम् अपि लोकानां काक्षीवतो ऽनृणो ऽभवत्
ततः प्रभृति तत् तीर्थम् ऋणमोचनम् उच्यते श्रौतस्मार्त-ऋणेभ्यश् च इतरेभ्यश् च नारद तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत्