भूतवद् भवितव्यं स्याद् दास्यमानं तु दत्तवत् प्राप्तव्यं प्राप्तवत् तत्र दैवी वाग् अभवच् छुभा
प्रभूतशत्रुः परिभूतदुःखः संपूज्य सोमेश्वरम् आप लिङ्गम् दिगीश्वरत्वं द्रविणप्रभुत्वम् अपारदातृत्वकलत्रपुत्रान्
तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् एवं भवतु नामेति धनदो वाक्यम् अब्रवीत्
तथैवास्त्व् इति देवेशो दैवीं वाचम् अमन्यत पुलस्त्यं च वरैः पुण्यैस् तथा विश्रवसं मुनिम्
धनपालं च देवेशो ह्य् अभिनन्द्य ययौ शिवः ततः प्रभृति तत् तीर्थं पौलस्त्यं धनदं विदुः
तथा वैश्रवसं पुण्यं सर्वकामप्रदं शुभम् तेषु स्नानादि यत् किंचित् तत् सर्वं बहुपुण्यदम्
अग्नितीर्थम् इति ख्यातं सर्वक्रतुफलप्रदम् सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु
जातवेदा इति ख्यातो अग्नेर् भ्राता स हव्यवाट् हव्यं वहन्तं देवानां गौतम्यास् तीर एव तु
ऋषीणां सत्त्रसदने अग्नेर् भ्रातरम् उत्तमम् भ्रातुः प्रियं तथा दक्षं मधुर् दितिसुतो बली
जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्व् अपि हव्यं देवा नैव चापुर् मृते वै जातवेदसि
मृते भ्रातरि स त्व् अग्निः प्रिये वै जातवेदसि कोपेन महताविष्टो गाङ्गम् अम्भः समाविशत्
गङ्गाम्भसि समाविष्टे ह्य् अग्नौ देवाश् च मानुषाः जीवम् उत्सर्जयाम् आसुर् अग्निजीवा यतो मताः
यत्राग्निर् जलम् आविष्टस् तं देशं सर्व एव ते आजग्मुर् विबुधाः सर्व ऋषयः पितरस् तथा
विनाग्निना न जीवामः स्तुवन्तो ऽग्निं विशेषतः अग्निं जलगतं दृष्ट्वा प्रियं चोचुर् दिवौकसः
देवाञ् जीवय हव्येन कव्येन च पितॄंस् तथा मानुषान् अन्नपाकेन बीजानां क्लेदनेन च
अग्निर् अप्य् आह तान् देवाञ् शक्तो यो मे गतो ऽनुजः क्रियमाणे भवत्कार्ये या गतिर् जातवेदसः
सा वापि स्यान् मम सुरा नोत्सहे कार्यसाधने कार्यं तु सर्वतस् तस्य भवतां जातवेदसः
इमां स्थितिम् अनुप्राप्तो न जाने मे कथं भवेत् इह चामुत्र च व्याप्तौ शक्तिर् अप्य् अत्र नो भवेत्
अथापि क्रियमाणे वै कार्ये सैव गतिर् मम देवास् तम् ऊचुर् भावेन सर्वेण ऋषयस् तथा
आयुः कर्मणि च प्रीतिर् व्याप्तौ शक्तिश् च दीयते प्रयाजान् अनुयाजांश् च दास्यामो हव्यवाहन
देवानां त्वं मुखं श्रेष्ठम् आहुत्यः प्रथमास् तव त्वया दत्तं तु यद् द्रव्यं भोक्ष्यामः सुरसत्तम
ततस् तुष्टो ऽभवद् वह्निर् देववाक्याद् यथाक्रमम् इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा
सर्वत्र वह्निर् अभयः समर्थो ऽभूत् सुराज्ञया जातवेदा बृहद्भानुः सप्तार्चिर् नीललोहितः
जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते जलाद् आकृष्य विबुधा अभिषिच्य विभावसुम्
उभयत्र पदे वासः सर्वगो ऽग्निस् ततो ऽभवत् यथागतं सुरा जग्मुर् वह्नितीर्थं तद् उच्यते
तत्र सप्त शतान्य् आसंस् तीर्थानि गुणवन्ति च तेषु स्नानं च दानं च यः करोति जितात्मवान्
अश्वमेधफलं साग्रं प्राप्नोत्य् अविकलं शुभम् देवतीर्थं च तत्रैव आग्नेयं जातवेदसम्
अग्निप्रतिष्ठितं लिङ्गं तत्रास्ते ऽनेकवर्णवत् तद्देवदर्शनाद् एव सर्वक्रतुफलं लभेत्
ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः
आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः न दारसंग्रहं लेभे वैराग्यान् नाग्निपूजनम्