सिक्तायाः संगमे पुण्यम् ऐन्द्रं तद् अभिधीयते तत्र सप्त सहस्राणि तीर्थान्य् आसञ् शुभानि च
तेषु स्नानं च दानं च विशेषेण तु संगमे सर्वं तद् अक्षयं विद्यान् नात्र कार्या विचारणा
यद् एतत् पुण्यम् आख्यानं यः पठेच् च शृणोति वा सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः
पौलस्त्यं तीर्थम् आख्यातं सर्वसिद्धिप्रदं नृणाम् प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम्
उत्तराशापतिः पूर्वम् ऋद्धिसिद्धिसमन्वितः पुरा लङ्कापतिश् चासीज् ज्येष्ठो विश्रवसः सुतः
तस्यैते भ्रातरश् चासन् बलवन्तो ऽमितप्रभाः सापत्ना रावणश् चैव कुम्भकर्णो विभीषणः
ते ऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास् तु ते मद्दत्तेन विमानेन धनदो भ्रातृभिः सह
ममान्तिकं भक्तियुक्तो नित्यम् एति तु याति च रावणस्य तु या माता कुपिता साब्रवीत् सुतान्
मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् देवाश् च दानवाश् चासन् सापत्ना भ्रातरो मिथः
अन्योन्यवधम् ईप्सन्ते जयैश्वर्यवशानुगाः तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः सापत्न्यं यो ऽनुमन्यते तस्य जीवो निरर्थकः
तन् मातृवचनं श्रुत्वा भ्रातरस् ते त्रयो मुने जग्मुस् ते तपसे ऽरण्यं कृतवन्तस् तपो महत्
मत्तो वरान् अवापुश् च त्रय एते च राक्षसाः मातुलेन मरीचेन तथा मातामहेन तु
तन्मातृवचनाच् चापि ततो लङ्काम् अयाचत रक्षोभावान् मातृदोषाद् भ्रात्रोर् वैरम् अभून् महत्
ततस् तद् अभवद् युद्धं देवदानवयोर् इव युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा
पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् रावणो घोषयाम् आस त्रैलोक्ये सचराचरे
यो दद्याद् आश्रयं भ्रातुः स च वध्यो भवेन् मम भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद् वचः
भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे आश्रयः शरणं यत् स्याद् दैवं वा तीर्थम् एव च
तत् पौत्रवचनं श्रुत्वा पुलस्त्यो वाक्यम् अब्रवीत्
गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् तत्र नास्य प्रवेशः स्याद् गङ्गाया जलमध्यतः
सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह
तथेत्य् उक्त्वा जगामासौ सभार्यो धनदस् तथा पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः
गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम्
स्वामी त्वम् एवास्य चराचरस्य विश्वस्य शंभो न परो ऽस्ति कश्चित् त्वाम् अप्य् अवज्ञाय यदीह मोहात् प्रगल्भते कोपि स शोच्य एव
त्वम् अष्टमूर्त्या सकलं बिभर्षि त्वदाज्ञया वर्तत एव सर्वम् तथापि वेदेति बुधो भवन्तं न जात्व् अविद्वान् महिमा पुरातनम्
मलप्रसूतं यद् अवोचद् अम्बा हास्यात् सुतो ऽयं तव देव शूरः त्वत्प्रेक्षिताद् यः स च विघ्नराजो जज्ञे त्व् अहो चेष्टितम् ईशदृष्टेः
अश्रुप्लुताङ्गी गिरिजा समीक्ष्य वियुक्तदांपत्यम् इतीशम् ऊचे मनोभवो ऽभून् मदनो रतिश् च सौभाग्यपूर्वत्वम् अवाप सोमात्
इत्यादि स्तुवतस् तस्य पुरतो ऽभूत् त्रिलोचनः वरेण च्छन्दयाम् आस हर्षान् नोवाच किंचन
तूष्णींभूते तु धनदे पुलस्त्ये च महेश्वरे पुनः पुनर् वरस्वेति शिवे वादिनि हर्षिते
एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम्
पुलस्त्यस्य तु यच् चित्तं पितुर् वैश्रवणस्य तु विदित्वेव तदा वाणी शुभम् अर्थम् उदीरयत्