इतरा लौकिकी विद्या वैदिकी चान्यगोचरा किं पुनः शंकरे तुष्टे विचार्यम् अवशिष्यते
स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम् दैत्यानां च गुरुश् चासीद् विद्यया पूजितः कविः
ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस् तु ताम्
कचाद् बृहस्पतिश् चापि ततो देवाः पृथक् पृथक् अवापुर् महतीं विद्यां याम् आहुर् मृतजीविनीम्
यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् गौतम्या उत्तरे पारे शुक्रतीर्थं तद् उच्यते
मृतसंजीविनीतीर्थम् आयुरारोग्यवर्धनम् स्नानं दानं च यत् किंचित् सर्वम् अक्षयपुण्यदम्
इन्द्रतीर्थम् इति ख्यातं ब्रह्महत्याविनाशनम् स्मरणाद् अपि पापौघक्लेशसंघविनाशनम्
पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः
इन्द्रस् ततो वृत्रहन्ता इतश् चेतश् च धावति यत्र यत्र त्व् असौ याति हत्या सापीन्द्रगामिनी
स महत् सर आविश्य पद्मनालम् उपागमत् तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः
सरस्तीरे ऽपि हत्यासीद् दिव्यं वर्षसहस्रकम् एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्य् अभवन् मुने
मन्त्रयाम् आसुर् अव्यग्राः कथम् इन्द्रो भवेद् इति तत्राहम् अवदं देवान् हत्यास्थानं प्रकल्प्य च
इन्द्रस्य पावनार्थाय गौतम्याम् अभिषिच्यताम् यत्राभिषिक्तः पूतात्मा पुनर् इन्द्रो भविष्यति
तथा ते निश्चयं कृत्वा गौतमीं शीघ्रम् आगमन् तत्र स्नातं सुरपतिं देवाश् च ऋषयस् तथा
अभिषेक्तुकामास् ते सर्वे शचीकान्तं च तस्थिरे अभिषिच्यमानम् इन्द्रं तं प्रकोपाद् गौतमो ऽब्रवीत्
अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्व् असुरारयः
तद् ऋषेर् वचनं श्रुत्वा परिहृत्य च गौतमीम् नर्मदाम् अगमन् सर्व इन्द्रम् आदाय सत्वराः
उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे अभिषेक्ष्यमाणम् इन्द्रं तं माण्डव्यो भगवान् ऋषिः
अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम् पूजयाम् आसुर् अमरा माण्डव्यं युक्तिभिः स्तवैः
अयम् इन्द्रः सहस्राक्षो यस्मिन् देशे ऽभिषिच्यते तत्रातिदारुणं विघ्नं मुने समुपजायते
तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव मलनिर्यातनं यस्मिन् कुर्मस् तस्मिन् वरान् बहून्
देशे दास्यामहे सर्वे तद् अनुज्ञातुम् अर्हसि यस्मिन् देशे सुरेन्द्रस्य अभिषेको भविष्यति
स सर्वकामदः पुंसां धान्यवृक्षफलैर् युतः नानावृष्टिर् न दुर्भिक्षं भवेद् अत्र कदाचन
मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः अभिषेकः कृतस् तत्र मलनिर्यातनं तथा
देवैस् तदोक्तो मुनिभिः स देशो मालवस् ततः अभिषिक्ते सुरपतौ जाते च विमले तदा
आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे सुराश् च ऋषयश् चैव अहं विष्णुस् तथैव च
वसिष्ठो गौतमश् चापि अगस्त्यो ऽत्रिश् च कश्यपः एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः
स्नानं तत्पुण्यतोयेन अकुर्वन्न् अभिषेचनम् मया पुनः शचीभर्ता कमण्डलुभवेन च
वारिणाप्य् अभिषिक्तश् च तत्र पुण्याभवन् नदी सिक्ता चेति च तत्रासीत् ते गङ्गायां च संगते
संगमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ ततः प्रभृति तत् तीर्थं पुण्यासंगमम् उच्यते