गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः
बालो ऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो नाहं जानामि ते किंचित् स्तुतिं कर्तुं नमो ऽस्तु ते
परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा त्वं प्रभुः सर्वभावेन जगन्नाथ नमो ऽस्तु ते
गुरुर् गुरुमतां देव महतां च महान् असि अहम् अल्पतरो बालो जगन्मय नमो ऽस्तु ते
विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् मां त्वं च कृपया पश्य लोकसाक्षिन् नमो ऽस्तु ते
एवं तु स्तुवतस् तस्य प्रसन्नो ऽभूत् सुरेश्वरः
कामं वरय भद्रं ते यच् चापि सुरदुर्लभम्
कविर् अप्य् आह देवेशं कृताञ्जलिर् उदारधीः
ब्रह्मादिभिश् च ऋषिभिर् या विद्या नैव गोचरा तां विद्यां नाथ याचिष्ये त्वं गुरुर् मम दैवतम्
मृतसंजीविनीं विद्याम् अज्ञातां त्रिदशैर् अपि तां दत्तवान् सुरश्रेष्ठस् तस्मै शुक्राय याचते
इतरा लौकिकी विद्या वैदिकी चान्यगोचरा किं पुनः शंकरे तुष्टे विचार्यम् अवशिष्यते
स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम् दैत्यानां च गुरुश् चासीद् विद्यया पूजितः कविः
ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस् तु ताम्
कचाद् बृहस्पतिश् चापि ततो देवाः पृथक् पृथक् अवापुर् महतीं विद्यां याम् आहुर् मृतजीविनीम्
यत्र सा कविना प्राप्ता विद्यापूज्य महेश्वरम् गौतम्या उत्तरे पारे शुक्रतीर्थं तद् उच्यते
मृतसंजीविनीतीर्थम् आयुरारोग्यवर्धनम् स्नानं दानं च यत् किंचित् सर्वम् अक्षयपुण्यदम्
इन्द्रतीर्थम् इति ख्यातं ब्रह्महत्याविनाशनम् स्मरणाद् अपि पापौघक्लेशसंघविनाशनम्
पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः
इन्द्रस् ततो वृत्रहन्ता इतश् चेतश् च धावति यत्र यत्र त्व् असौ याति हत्या सापीन्द्रगामिनी
स महत् सर आविश्य पद्मनालम् उपागमत् तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः
सरस्तीरे ऽपि हत्यासीद् दिव्यं वर्षसहस्रकम् एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्य् अभवन् मुने
मन्त्रयाम् आसुर् अव्यग्राः कथम् इन्द्रो भवेद् इति तत्राहम् अवदं देवान् हत्यास्थानं प्रकल्प्य च
इन्द्रस्य पावनार्थाय गौतम्याम् अभिषिच्यताम् यत्राभिषिक्तः पूतात्मा पुनर् इन्द्रो भविष्यति
तथा ते निश्चयं कृत्वा गौतमीं शीघ्रम् आगमन् तत्र स्नातं सुरपतिं देवाश् च ऋषयस् तथा
अभिषेक्तुकामास् ते सर्वे शचीकान्तं च तस्थिरे अभिषिच्यमानम् इन्द्रं तं प्रकोपाद् गौतमो ऽब्रवीत्
अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्व् असुरारयः
तद् ऋषेर् वचनं श्रुत्वा परिहृत्य च गौतमीम् नर्मदाम् अगमन् सर्व इन्द्रम् आदाय सत्वराः
उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे अभिषेक्ष्यमाणम् इन्द्रं तं माण्डव्यो भगवान् ऋषिः
अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम् पूजयाम् आसुर् अमरा माण्डव्यं युक्तिभिः स्तवैः
अयम् इन्द्रः सहस्राक्षो यस्मिन् देशे ऽभिषिच्यते तत्रातिदारुणं विघ्नं मुने समुपजायते