ततः स राजा द्युतिमान् राक्षसं तं महाबलम् आससाद महातेजा धुन्धुं धुन्धुविनाशनः
तस्य वारिमयं वेगम् आपीय स नराधिपः योगी योगेन वह्निं च शमयाम् आस वारिणा
निहत्य तं महाकायं बलेनोदकराक्षसम् उत्तङ्कं दर्शयाम् आस कृतकर्मा नराधिपः
उत्तङ्कस् तु वरं प्रादात् तस्मै राज्ञे महात्मने ददौ तस्याक्षयं वित्तं शत्रुभिश् चापराजितम्
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् पुत्राणां चाक्षयांल् लोकान् स्वर्गे ये रक्षसा हताः
तस्य पुत्रास् त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ
धौन्धुमारेर् दृढाश्वस्य हर्यश्वश् चात्मजः स्मृतः हर्यश्वस्य निकुम्भो ऽभूत् क्षत्रधर्मरतः सदा
संहताश्वो निकुम्भस्य सुतो रणविशारदः अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः
तस्य हैमवती कन्या सतां मता दृषद्वती विख्याता त्रिषु लोकेषु पुत्रश् चास्याः प्रसेनजित्
लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत्
तस्य पुत्रो महान् आसीद् युवनाश्वो नराधिपः मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि
पतिव्रता च ज्येष्ठा च भ्रातॄणाम् अयुतस्य वै तस्याम् उत्पादयाम् आस मान्धाता द्वौ सुतौ द्विजाः
पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् पुरुकुत्ससुतस् त्व् आसीत् त्रसदस्युर् महीपतिः
नर्मदायाम् अथोत्पन्नः संभूतस् तस्य चात्मजः संभूतस्य तु दायादस् त्रिधन्वा रिपुमर्दनः
राज्ञस् त्रिधन्वनस् त्व् आसीद् विद्वांस् त्रय्यारुणः प्रभुः तस्य सत्यव्रतो नाम कुमारो ऽभून् महाबलः
परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः येन भार्या कृतोद्वाहा हृता चैव परस्य ह
बाल्यात् कामाच् च मोहाच् च साहसाच् चापलेन च जहार कन्यां कामार्तः कस्यचित् पुरवासिनः
अधर्मशङ्कुना तेन तं स त्रय्यारुणो ऽत्यजत् अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः
सो ऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः पिता च तम् अथोवाच श्वपाकैः सह वर्तय
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन इत्य् उक्तः स निराक्रामन् नगराद् वचनात् पितुः
न च तं वारयाम् आस वसिष्ठो भगवान् ऋषिः स तु सत्यव्रतो विप्राः श्वपाकावसथान्तिके
पित्रा त्यक्तो ऽवसद् वीरः पिताप्य् अस्य वनं ययौ ततस् तस्मिंस् तु विषये नावर्षत् पाकशासनः
समा द्वादश भो विप्रास् तेनाधर्मेण वै तदा दारांस् तु तस्य विषये विश्वामित्रो महातपाः
संन्यस्य सागरान्ते तु चकार विपुलं तपः तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रम् औरसम्
शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै तं च बद्धं गले दृष्ट्वा विक्रयार्थं नृपात्मजः
महर्षिपुत्रं धर्मात्मा मोक्षयाम् आस भो द्विजाः सत्यव्रतो महाबाहुर् भरणं तस्य चाकरोत्
विश्वामित्रस्य तुष्ट्यर्थम् अनुकम्पार्थम् एव च सो ऽभवद् गालवो नाम गले बन्धान् महातपाः महर्षिः कौशिको धीमांस् तेन वीरेण मोक्षितः
सत्यव्रतस् तु भक्त्या च कृपया च प्रतिज्ञया विश्वामित्रकलत्रं तु बभार विनये स्थितः
हत्वा मृगान् वराहांश् च महिषांश् च वनेचरान् विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च