तत्रासन्न् अयुतान्य् अष्ट सहस्राणि चतुर्दश तथा षट् च सहस्राणि पुनः षट् च तथैव च
षड् दक्षिणे तथा तीरे तीर्थानाम् अयुतत्रयम् पुण्यम् आख्यानम् एतद् धि श्वेततीर्थस्य नारद
यत्रासौ पतितो मृत्युर् मृत्युतीर्थं तद् उच्यते तस्य श्रवणमात्रेण सहस्रं जीवते समाः
तत्र स्नानं च दानं च सर्वपापप्रणाशनम् श्रवणं पठनं चापि स्मरणं च मलक्षयम् करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम्
शुक्रतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् सर्वपापप्रशमनं सर्वव्याधिविनाशनम्
अङ्गिराश् च भृगुश् चैव ऋषी परमधार्मिकौ तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ
जीवः कविर् इति ख्यातौ मातापित्रोर् वशे रतौ उपनीतौ सुतौ दृष्ट्वा पितराव् ऊचतुर् मिथः
आवयोर् एक एवास्तु शास्ता नित्यं च पुत्रयोः तस्माद् एकः शासिता स्यात् तिष्ठत्व् एको यथासुखम्
एतच् छ्रुत्वा ततः शीघ्रम् अङ्गिराः प्राह भार्गवम् अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः
एतच् छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत्
उभाव् अपि सुतौ नित्यम् अध्यापयति वै पृथक् वैषम्यबुद्ध्या तौ बालौ चिराच् छुक्रो ऽब्रवीद् इदम्
वैषम्येण गुरो मां त्वम् अध्यापयसि नित्यशः गुरूणां नेदम् उचितं वैषम्यं पुत्रशिष्ययोः
वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः नैषा विषमबुद्धीनां संख्या पापस्य विद्यते
आचार्य सम्यग् ज्ञातो ऽसि नमस्ये ऽहं पुनः पुनः गच्छेयं गुरुम् अन्यं वै माम् अनुज्ञातुम् अर्हसि
गच्छेयं पितरं ब्रह्मन् यद्य् असौ विषमो भवेत् ततो वान्यत्र गच्छामि स्वामिन् पृष्टो ऽसि गम्यते
गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस् त्व् अगात् ततः अवाप्तविद्यः पितरं गच्छेयं चेत्य् अचिन्तयत्
तस्मात् कम् अनुपृच्छेयम् उत्कृष्टः को गुरुर् भवेत् इति स्मरन् महाप्राज्ञम् अपृच्छद् वृद्धगौतमम्
को गुरुः स्यान् मुनिश्रेष्ठ मम ब्रूहि गुरुर् भवेत् त्रयाणाम् अपि लोकानां यो गुरुस् तं व्रजाम्य् अहम्
स प्राह जगताम् ईशं शंभुं देवं जगद्गुरुम् क्वाराधयामि गिरिशम् इत्य् उक्तः प्राह गौतमः
गौतम्यां तु शुचिर् भूत्वा स्तोत्रैस् तोषय शंकरम् ततस् तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति
गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः
बालो ऽहं बालबुद्धिश् च बालचन्द्रधर प्रभो नाहं जानामि ते किंचित् स्तुतिं कर्तुं नमो ऽस्तु ते
परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा त्वं प्रभुः सर्वभावेन जगन्नाथ नमो ऽस्तु ते
गुरुर् गुरुमतां देव महतां च महान् असि अहम् अल्पतरो बालो जगन्मय नमो ऽस्तु ते
विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् मां त्वं च कृपया पश्य लोकसाक्षिन् नमो ऽस्तु ते
एवं तु स्तुवतस् तस्य प्रसन्नो ऽभूत् सुरेश्वरः
कामं वरय भद्रं ते यच् चापि सुरदुर्लभम्
कविर् अप्य् आह देवेशं कृताञ्जलिर् उदारधीः
ब्रह्मादिभिश् च ऋषिभिर् या विद्या नैव गोचरा तां विद्यां नाथ याचिष्ये त्वं गुरुर् मम दैवतम्
मृतसंजीविनीं विद्याम् अज्ञातां त्रिदशैर् अपि तां दत्तवान् सुरश्रेष्ठस् तस्मै शुक्राय याचते