भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वम् एव च आदिकर्तर् नमस् तुभ्यं नीलकण्ठ नमो ऽस्तु ते ब्रह्मप्रिय नमस् ते ऽस्तु देवप्रिय नमो ऽस्तु ते
श्वेतं द्विजं भक्तम् अनायुषं ते नेतुं यमादिः सकलो ऽसमर्थः संतोषम् आप्ताः परमं समीक्ष्य भक्तप्रियत्वं त्वयि नाथ सत्यम्
ये त्वां प्रपन्नाः शरणं कृपालुं नालं कृतान्तो ऽप्य् अनुवीक्षितुं तान् एवं विदित्वा शिव एव सर्वे त्वाम् एव भक्त्या परया भजन्ते
त्वम् एव जगतां नाथ किं न स्मरसि शंकर त्वां विना कः समर्थो ऽत्र व्यवस्थां कर्तुम् ईश्वरः
एवं तु स्तुवतां तेषां पुरस्ताद् अभवच् छिवः किं ददामीति तान् आह इदम् ऊचुः सुरा अपि
अयं वैवस्वतो धर्मो नियन्ता सर्वदेहिनाम् धर्माधर्मव्यवस्थायां स्थापितो लोकपालकः
नायं वधम् अवाप्नोति नापराधी न पापकृत् विना तेन जगद्धातुर् नैव किंचिद् भविष्यति
तस्माज् जीवय देवेश यमं सबलवाहनम् प्रार्थना सफला नाथ महत्सु न वृथा भवेत्
ततः प्रोवाच भगवाञ् जीवयेयम् असंशयम् यमं यदि वचो मे ऽद्य अनुमन्यन्ति देवताः
ततः प्रोचुः सुराः सर्वे कुर्मो वाक्यं त्वयोदितम् हरिब्रह्मादिसहितं वशे यस्याखिलं जगत्
ततः प्रोवाच भगवान् अमरान् समुपागतान् मद्भक्तो न मृतिं यातु नेत्य् ऊचुर् अमराः पुनः
अमराः स्युस् ततो देव सर्वलोकाश् चराचराः अमर्त्यमर्त्यभेदो ऽयं न स्याद् देव जगन्मय
पुनर् अप्य् आह ताञ् शंभुः शृण्वन्तु मम भाषितम् मद्भक्तानां वैष्णवानां गौतमीम् अनुसेवताम्
वयं तु स्वामिनो नित्यं न मृत्युः स्वाम्यम् अर्हति वार्त्ताप्य् एषां न कर्तव्या यमेन तु कदाचन
आधिव्याध्यादिभिर् जातु कार्यो नाभिभवः क्वचित् ये शिवं शरणं यातास् ते मुक्तास् तत्क्षणाद् अपि
सानुगस्य यमस्यातो नमस्याः सर्व एव ते तथेत्य् ऊचुः सुरगणा देवदेवं शिवं प्रति
ततश् च भगवान् नाथो नन्दिनं प्राह वाहनम्
गौतम्या उदकेन त्वम् अभिषिञ्च मृतं यमम्
ततो यमादयः सर्वे अभिषिक्तास् तु नन्दिना उत्थिताश् च सजीवास् ते दक्षिणाशां ततो गताः
उत्तरे गौतमीतीरे विष्ण्वाद्याः सर्वदैवताः स्थिता आसन् पूजयन्तो देवदेवं महेश्वरम्
तत्रासन्न् अयुतान्य् अष्ट सहस्राणि चतुर्दश तथा षट् च सहस्राणि पुनः षट् च तथैव च
षड् दक्षिणे तथा तीरे तीर्थानाम् अयुतत्रयम् पुण्यम् आख्यानम् एतद् धि श्वेततीर्थस्य नारद
यत्रासौ पतितो मृत्युर् मृत्युतीर्थं तद् उच्यते तस्य श्रवणमात्रेण सहस्रं जीवते समाः
तत्र स्नानं च दानं च सर्वपापप्रणाशनम् श्रवणं पठनं चापि स्मरणं च मलक्षयम् करोति सर्वलोकानां भुक्तिमुक्तिप्रदायकम्
शुक्रतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम् सर्वपापप्रशमनं सर्वव्याधिविनाशनम्
अङ्गिराश् च भृगुश् चैव ऋषी परमधार्मिकौ तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ
जीवः कविर् इति ख्यातौ मातापित्रोर् वशे रतौ उपनीतौ सुतौ दृष्ट्वा पितराव् ऊचतुर् मिथः
आवयोर् एक एवास्तु शास्ता नित्यं च पुत्रयोः तस्माद् एकः शासिता स्यात् तिष्ठत्व् एको यथासुखम्
एतच् छ्रुत्वा ततः शीघ्रम् अङ्गिराः प्राह भार्गवम् अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः
एतच् छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत्