तर्पयित्वा सुरान् आदौ तर्पयित्वा जगत्त्रयम् विप्रः संभुक्तवाञ् शिष्यैर् विश्वामित्रः स्वभार्यया
ततः प्रभृति तत् तीर्थम् आख्यातं चातिपुण्यदम् यत्रागतः सुरपतिर् लोकानाम् अमृतार्पणम्
संजातं मांसवर्जं तु तत् तीर्थं पुण्यदं नृणाम् तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
ततः प्रभृति तत् तीर्थं विश्वामित्रम् इति स्मृतम् मधुतीर्थम् अथैन्द्रं च श्येनं पर्जन्यम् एव च
श्वेततीर्थम् इति ख्यातं त्रैलोक्ये विश्रुतं शुभम् तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते
श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा आतिथ्यपूजानिरतो गौतमीतीरम् आश्रितः
मनसा कर्मणा वाचा शिवभक्तिपरायणः ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम्
पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् नेतुं दूताः समाजग्मुर् दक्षिणाशापतेस् तदा
नाशक्नुवन् गृहं तस्य प्रवेष्टुम् अपि नारद तदा काले व्यतिक्रान्ते चित्रको मृत्युम् अब्रवीत्
किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्व् इति नाद्याप्य् आयान्ति दूतास् ते मृत्योर् नैवोचितं तु ते
ततश् च कुपितो मृत्युः प्रायाच् छ्वेतगृहं स्वयम् बहिःस्थितांस् तदा पश्यन् मृत्युर् दूतान् भयार्दितान् प्रोवाच किम् इदं दूता मृत्युम् ऊचुश् च दूतकाः
शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः येषां प्रसन्नो गिरिशस् तेषां का नाम भीतयः
पाशपाणिस् तदा मृत्युः प्राविशद् यत्र स द्विजः नासौ विप्रो विजानाति मृत्युं वा यमकिंकरान्
शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः
किम् अत्र वीक्षसे मृत्यो दण्डिनं मृत्युर् अब्रवीत्
श्वेतं नेतुम् इहायातस् तस्माद् वीक्षे द्विजोत्तमम्
त्वं गच्छेत्य् अब्रवीद् दण्डी मृत्युः पाशान् अथाक्षिपत् श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह
शिवदत्तेन दण्डेन दण्डी मृत्युम् अताडयत् ततः पाशधरो मृत्युः पपात धरणीतले
ततस् ते सत्वरं दूता हतं मृत्युम् अवेक्ष्य च यमाय सर्वम् अवदन् वधं मृत्योस् तु दण्डिना
ततश् च कुपितो धर्मो यमो महिषवाहनः चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम्
महिषं भूतवेतालान् आधिव्याधींस् तथैव च अक्षिरोगान् कुक्षिरोगान् कर्णशूलं तथैव च
ज्वरं च त्रिविधं पापं नरकाणि पृथक् पृथक् त्वरन्ताम् इति तान् उक्त्वा जगाम त्वरितो यमः
एतैर् अन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः तम् आयान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः
विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् तत्र तद् युद्धम् अभवत् सर्वलोकभयावहम्
कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिंकरान् दक्षिणाशापतिं चापि निजघान बलान्वितम्
हतावशिष्टा याम्यास् ते आदित्याय न्यवेदयन् आदित्यो ऽपि सुरैः सार्धं श्रुत्वा तन् महद् अद्भुतम्
लोकपालैर् अनुवृतो ममान्तिकम् उपागमत् अहं विष्णुश् च भगवान् इन्द्रो ऽग्निर् वरुणस् तथा
चन्द्रादित्याव् अश्विनौ च लोकपाला मरुद्गणाः एते चान्ये च बहवो वयं याता यमान्तिकम्
मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः समुद्राश् च नदा नागा नानाभूतान्य् अनेकशः
तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः कृताञ्जलिपुटाः शंभुम् ऊचुः सर्वे पुनः पुनः