आगच्छन्तं त्व् आगोयुक्तं गच्छन्तं त्वाम् अनागसम् पश्यामि नित्यं तस्मात् त्वं पूतो देव्या कृतो ऽधुना
तस्मान् न कार्यं ते किंचिद् अवशिष्टं भविष्यति इयं च माता ते विप्र ज्ञाता या चैव बन्धकी
पश्चात्तापं गतात्यन्तं निवृत्ता त्व् अथ पातकात् भूतानां विषये प्रीतिर् वत्स स्वाभाविकी यतः
सत्सङ्गतो महापुण्यान् निवृत्तिर् दैवतो भवेत् अत्यर्थम् अनुतप्तेयं प्रागाचरितपुण्यतः
स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति तथा तौ चक्रतुर् उभौ मातापुत्रौ च नारद
स्नानाद् बभूवतुर् उभौ गतपापाव् असंशयम् ततः प्रभृति तत् तीर्थं धौतपापं प्रचक्षते
पापप्रणाशनं नाम गालवं चेति विश्रुतम् महापातकम् अल्पं वा तथा यच् चोपपातकम् तत् सर्वं नाशयेद् एतद् धौतपापं सुपुण्यदम्
यत्र दाशरथी रामः सीतया सहितो द्विज पितॄन् संतर्पयाम् आस पितृतीर्थं ततो विदुः
तत्र स्नानं च दानं च पितॄणां तर्पणं तथा सर्वम् अक्षयताम् एति नात्र कार्या विचारणा
यत्र दाशरथी रामो विश्वामित्रं महामुनिम् पूजयाम् आस राजेन्द्रो मुनिभिस् तत्त्वदर्शिभिः
विश्वामित्रं तु तत् तीर्थम् ऋषिजुष्टं सुपुण्यदम् तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः
अनावृष्टिर् अभूत् पूर्वं प्रजानाम् अतिभीषणा विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीम् अगात्
शिष्यान् पुत्रांश् च जायां च कृशान् दृष्ट्वा क्षुधातुरान् व्यथितः कौशिकः श्रीमाञ् शिष्यान् इदम् उवाच ह
यथा कथंचिद् यत् किंचिद् यत्र क्वापि यथा तथा आनीयतां किंतु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् इदानीम् एव गन्तव्यम् आनेतव्यं क्षणेन तु
ऋषेस् तद् वचनाच् छिष्याः क्षुधितास् त्वरया ययुः अटमाना इतश् चेतो मृतं ददृशिरे शुनम्
तम् आदाय त्वरायुक्ता आचार्याय न्यवेदयन् सो ऽपि तं भद्रम् इत्य् उक्त्वा प्रतिजग्राह पाणिना
विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा पचध्वं मन्त्रवच् चापि हुत्वाग्नौ तु यथाविधि
देवान् ऋषीन् पितॄन् अन्यांस् तर्पयित्वातिथीन् गुरून् सर्वे भोक्ष्यामहे शेषम् इत्य् उवाच स कौशिकः
विश्वामित्रवचः श्रुत्वा शिष्याश् चक्रुस् तथैव तत् पच्यमाने श्वमांसे तु देवदूतो ऽग्निर् अभ्यगात् देवानां सदने सर्वं देवेभ्यस् तन् न्यवेदयत्
देवैः श्वमांसं भोक्तव्यम् आपन्नम् ऋषिकल्पितम्
अग्नेस् तद्वचनाद् इन्द्रः श्येनो भूत्वा विहायसि स्थालीम् अथाहरत् पूर्णां मांसेन पिहितां तदा
तत् कर्म दृष्ट्वा शिष्यास् ते ऋषेः श्येनं न्यवेदयन् हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना
ततश् चुकोप भगवाञ् शप्तुकामस् तदा हरिम् ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम्
पुनर् निवेशयाम् आस उल्कास्व् एव खगो हरिः मधुना तु समायुक्तां विश्वामित्रश् चुकोप ह स्थालीं वीक्ष्य ततः कोपाद् इदम् आह स कौशिकः
श्वमांसम् एव नो देहि त्वं हरामृतम् उत्तमम् नो चेत् त्वां भस्मसात् कुर्याम् इन्द्रो भीतस् तदाब्रवीत्
मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः किम् अनेन श्वमांसेन अमेध्येन महामुने
विश्वामित्रो ऽपि नेत्य् आह भुक्तेनैकेन किं फलम् प्रजाः सर्वाश् च सीदन्ति किं तेन मधुना हरे
सर्वेषाम् अमृतं चेत् स्याद् भोक्ष्ये ऽहम् अमृतं शुचि अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम्
पश्चाद् अहं तच् च मांसं भोक्ष्ये नानृतम् अस्ति मे ततो भीतः सहस्राक्षो मेघान् आहूय तत्क्षणात्
ववर्ष चामृतं वारि ह्य् अमृतेनार्पिताः प्रजाः पश्चात् तद् अमृतं पुण्यं हरिदत्तं यथाविधि