किं तु जातं द्विजश्रेष्ठ क्व च प्रीतिर् गता तव किं तु वाक्यं मया चोक्तं तव चित्तविरोधकृत्
आत्मानम् आत्मनाश्वास्य ब्राह्मणो वाक्यम् अब्रवीत्
धृतव्रतः पिता विप्रस् तत्पुत्रो ऽहं सनाद्यतः माता मही मम इयं मम दैवाद् उपागता
एतच् छ्रुत्वा तस्य वाक्यं साप्य् अभूद् अतिदुःखिता तयोस् तु शोचतोः पश्चात् प्रभाते विमले रवौ गालवं मुनिशार्दूलं गत्वा विप्रो न्यवेदयत्
धृतव्रतसुतो ब्रह्मंस् त्वया पूर्वं तु पालितः उपनीतस् त्वया चैव मही माता मम प्रभो
किं करोमि च किं कृत्वा निष्कृतिर् मम वै भवेत्
तद् विप्रवचनं श्रुत्वा गालवः प्राह मा शुचः तवेदं द्विविधं रूपं नित्यं पश्याम्य् अपूर्ववत्
ततः पृष्टो ऽसि वृत्तान्तं श्रुतं ज्ञातं मया यथा यत् कृत्यं तव तत् सर्वं गङ्गायां प्रत्यगात् क्षयम्
अस्य तीर्थस्य माहात्म्याद् अस्या देव्याः प्रसादतः पूतो ऽसि प्रत्यहं वत्स नात्र कार्या विचारणा
प्रभाते तव रूपाणि सपापानि त्व् अहर्निशम् पश्ये ऽहं पुनर् अप्य् एव रूपं तव गुणोत्तमम्
आगच्छन्तं त्व् आगोयुक्तं गच्छन्तं त्वाम् अनागसम् पश्यामि नित्यं तस्मात् त्वं पूतो देव्या कृतो ऽधुना
तस्मान् न कार्यं ते किंचिद् अवशिष्टं भविष्यति इयं च माता ते विप्र ज्ञाता या चैव बन्धकी
पश्चात्तापं गतात्यन्तं निवृत्ता त्व् अथ पातकात् भूतानां विषये प्रीतिर् वत्स स्वाभाविकी यतः
सत्सङ्गतो महापुण्यान् निवृत्तिर् दैवतो भवेत् अत्यर्थम् अनुतप्तेयं प्रागाचरितपुण्यतः
स्नानं कृत्वा चात्र तीर्थे ततः पूता भविष्यति तथा तौ चक्रतुर् उभौ मातापुत्रौ च नारद
स्नानाद् बभूवतुर् उभौ गतपापाव् असंशयम् ततः प्रभृति तत् तीर्थं धौतपापं प्रचक्षते
पापप्रणाशनं नाम गालवं चेति विश्रुतम् महापातकम् अल्पं वा तथा यच् चोपपातकम् तत् सर्वं नाशयेद् एतद् धौतपापं सुपुण्यदम्
यत्र दाशरथी रामः सीतया सहितो द्विज पितॄन् संतर्पयाम् आस पितृतीर्थं ततो विदुः
तत्र स्नानं च दानं च पितॄणां तर्पणं तथा सर्वम् अक्षयताम् एति नात्र कार्या विचारणा
यत्र दाशरथी रामो विश्वामित्रं महामुनिम् पूजयाम् आस राजेन्द्रो मुनिभिस् तत्त्वदर्शिभिः
विश्वामित्रं तु तत् तीर्थम् ऋषिजुष्टं सुपुण्यदम् तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः
अनावृष्टिर् अभूत् पूर्वं प्रजानाम् अतिभीषणा विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीम् अगात्
शिष्यान् पुत्रांश् च जायां च कृशान् दृष्ट्वा क्षुधातुरान् व्यथितः कौशिकः श्रीमाञ् शिष्यान् इदम् उवाच ह
यथा कथंचिद् यत् किंचिद् यत्र क्वापि यथा तथा आनीयतां किंतु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् इदानीम् एव गन्तव्यम् आनेतव्यं क्षणेन तु
ऋषेस् तद् वचनाच् छिष्याः क्षुधितास् त्वरया ययुः अटमाना इतश् चेतो मृतं ददृशिरे शुनम्
तम् आदाय त्वरायुक्ता आचार्याय न्यवेदयन् सो ऽपि तं भद्रम् इत्य् उक्त्वा प्रतिजग्राह पाणिना
विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा पचध्वं मन्त्रवच् चापि हुत्वाग्नौ तु यथाविधि
देवान् ऋषीन् पितॄन् अन्यांस् तर्पयित्वातिथीन् गुरून् सर्वे भोक्ष्यामहे शेषम् इत्य् उवाच स कौशिकः
विश्वामित्रवचः श्रुत्वा शिष्याश् चक्रुस् तथैव तत् पच्यमाने श्वमांसे तु देवदूतो ऽग्निर् अभ्यगात् देवानां सदने सर्वं देवेभ्यस् तन् न्यवेदयत्
देवैः श्वमांसं भोक्तव्यम् आपन्नम् ऋषिकल्पितम्