तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः धृतव्रतं तथाकर्षन् मृत्युः कालेरितो मुने
ततः सा बालविधवा बालपुत्रा सुरूपिणी त्रातारं नैव पश्यन्ती गालवाश्रमम् अभ्यगात्
तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता सा बभ्राम बहून् देशान् पुंस्कामा कामचारिणी
तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः जातो ऽपि मातृदोषेण वेश्येरितमतिस् त्व् अभूत्
जनस्थानम् इति ख्यातं नानाजातिसमावृतम् तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा
तत्सुतो ऽपि बहून् देशान् परिबभ्राम कामुकः सो ऽपि कालवशात् तत्र जनस्थाने ऽवसत् तदा
स्त्रियम् आकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः मही चापि धनं दातॄन् पुरुषान् समपेक्षते
मेने न पुत्रम् आत्मीयं स चापि न तु मातरम् तयोः समागमश् चासीद् विधिना मातृपुत्रयोः
एवं बहुतिथे काले पुत्रे मातरि गच्छति तयोः परस्परं ज्ञानं नैवासीन् मातृपुत्रयोः
एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः आसीत् तस्याप्य् असद्वृत्तेः शृणु नारद चित्रवत्
स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् ब्राह्मीं संध्याम् अनुष्ठाय तद् ऊर्ध्वं तु धनार्जनम्
विद्याबलेन वित्तानि बहून्य् आर्ज्य ददात्य् असौ तथा स प्रातर् उत्थाय गङ्गां गत्वा यथाविधि
शौचादि स्नानसंध्यादि सर्वं कार्यं यथाक्रमम् कृत्वा तु ब्राह्मणान् नत्वा ततो ऽभ्येति स्वकर्मसु
प्रातःकाले गौतमीं तु यदा याति विरूपवान् कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः
स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् शान्तः सूर्याग्निसदृशो मूर्तिमान् इव भास्करः
एतद् रूपद्वयं स्वस्य नैव पश्यति स द्विजः गालवो यत्र भगवांस् तपोज्ञानपरायणः
आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर् वृतः ब्राह्मणो ऽपि च तत्रैव नित्यं तीर्थं समेत्य च
गालवं च नमस्याथ ततो याति स्वमन्दिरम् गङ्गायाः सेवनात् पूर्वं सनाज्जातस्य यद् वपुः
स्नानसंध्योत्तरे काले पुनर् यद् अपि तद् द्विजे उभयं तस्य तद् रूपं गालवो नित्यम् एव च
दृष्ट्वा सविस्मयो मेने किंचिद् अस्त्य् अत्र कारणम् एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम्
गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर् गृहम् आहूय यत्नतो धीमान् कृपया विस्मयेन च
को भवान् क्व च गन्तासि किं करोषि क्व भोक्ष्यसि किंनामा त्वं क्व शय्या ते का ते भार्या वदस्व मे
गालवस्य वचः श्रुत्वा ब्राह्मणो ऽप्य् आह तं मुनिम्
श्वः कथ्यते मया सर्वं ज्ञात्वा कार्यविनिर्णयम्
एवम् उक्त्वा गालवं तं सनाज्जातो गृहं ययौ भुक्त्वा रात्रौ तया सम्यक् शय्याम् आसाद्य बन्धकीम् उवाच चकितः स्मृत्वा गालवस्य तु यद् वचः
त्वं तु सर्वगुणोपेता बन्धक्य् अपि पतिव्रता आवयोः सदृशी प्रीतिर् यावज्जीवं प्रवर्तताम्
तथापि किंचित् पृच्छामि किंनाम्नी त्वं क्व वा कुलम् किं नु स्थानं क्व वा बन्धुर् मम सर्वं निवेद्यताम्
धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे
उत्सृष्टो मतिमान् बालः सनाज्जात इति श्रुतः अहं तु पूर्वदोषेण त्यक्त्वा धर्मं कुलागतम् स्वैरिणी त्व् इह वर्ते ऽहं विद्धि मां ब्राह्मणीं द्विज
तस्यास् तद् वचनं श्रुत्वा मर्मविद्ध इवाभवत् पपात सहसा भूमौ वेश्या तं वाक्यम् अब्रवीत्