स चापि व्यथितो भूत्वा शंभवे तन् न्यवेदयत् शंभुश् च वृषभं प्राह सर्वं सिध्यतु ते वचः
शिवाज्ञासहितो नन्दी गोजातं सर्वम् आहरत् नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस् त्वरा
माम् अवोचन् सुरगणा विना गोभिर् न जीव्यते तान् अवोचं सुरान् सर्वाञ् शंकरं यात याचत
तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् ईशो ऽपि विबुधान् आह जानाति वृषभो मम
ते वृषं प्रोचुर् अमरा देहि गा उपकारिणः वृषो ऽपि विबुधान् आह गोसवः क्रियतां क्रतुः
ततः प्राप्स्यथ गाः सर्वा या दिव्या याश् च मानुषाः ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः
गौतम्याश् च शुभे पार्श्वे गावो ववृधिरे ततः गोवर्धनं तु तत् तीर्थं देवानां प्रीतिवर्धनम्
तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् किंचिद् दानादिना यत् स्यात् फलं तत् तु न विद्महे
पापप्रणाशनं नाम तीर्थं पापभयापहम् नामधेयं प्रवक्ष्यामि शृणु नारद यत्नतः
धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः तस्य भार्या मही नाम तरुणी लोकसुन्दरी
तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः धृतव्रतं तथाकर्षन् मृत्युः कालेरितो मुने
ततः सा बालविधवा बालपुत्रा सुरूपिणी त्रातारं नैव पश्यन्ती गालवाश्रमम् अभ्यगात्
तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता सा बभ्राम बहून् देशान् पुंस्कामा कामचारिणी
तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः जातो ऽपि मातृदोषेण वेश्येरितमतिस् त्व् अभूत्
जनस्थानम् इति ख्यातं नानाजातिसमावृतम् तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा
तत्सुतो ऽपि बहून् देशान् परिबभ्राम कामुकः सो ऽपि कालवशात् तत्र जनस्थाने ऽवसत् तदा
स्त्रियम् आकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः मही चापि धनं दातॄन् पुरुषान् समपेक्षते
मेने न पुत्रम् आत्मीयं स चापि न तु मातरम् तयोः समागमश् चासीद् विधिना मातृपुत्रयोः
एवं बहुतिथे काले पुत्रे मातरि गच्छति तयोः परस्परं ज्ञानं नैवासीन् मातृपुत्रयोः
एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः आसीत् तस्याप्य् असद्वृत्तेः शृणु नारद चित्रवत्
स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् ब्राह्मीं संध्याम् अनुष्ठाय तद् ऊर्ध्वं तु धनार्जनम्
विद्याबलेन वित्तानि बहून्य् आर्ज्य ददात्य् असौ तथा स प्रातर् उत्थाय गङ्गां गत्वा यथाविधि
शौचादि स्नानसंध्यादि सर्वं कार्यं यथाक्रमम् कृत्वा तु ब्राह्मणान् नत्वा ततो ऽभ्येति स्वकर्मसु
प्रातःकाले गौतमीं तु यदा याति विरूपवान् कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः
स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् शान्तः सूर्याग्निसदृशो मूर्तिमान् इव भास्करः
एतद् रूपद्वयं स्वस्य नैव पश्यति स द्विजः गालवो यत्र भगवांस् तपोज्ञानपरायणः
आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर् वृतः ब्राह्मणो ऽपि च तत्रैव नित्यं तीर्थं समेत्य च
गालवं च नमस्याथ ततो याति स्वमन्दिरम् गङ्गायाः सेवनात् पूर्वं सनाज्जातस्य यद् वपुः
स्नानसंध्योत्तरे काले पुनर् यद् अपि तद् द्विजे उभयं तस्य तद् रूपं गालवो नित्यम् एव च
दृष्ट्वा सविस्मयो मेने किंचिद् अस्त्य् अत्र कारणम् एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम्