गरुडस्य गृहे नागो बद्धस् तिष्ठति सत्वरम् गत्वा तं जगताम् ईशं विष्णुं स्तुहि जनार्दनम्
बद्धं नागं काश्यपेन मद्वाक्याद् आनय स्वयम् तत् प्रभोर् वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम्
व्यज्ञापयत् स्वयं वाक्यं विष्णुं लोकपरायणम् नारायणः प्रीतमना गरुडं वाक्यम् अब्रवीत्
विनतात्मज मे वाक्यान् नन्दिने देहि पन्नगम् कम्पमानस् तद् आकर्ण्य नेत्य् उवाच विहंगमः विष्णुम् अप्य् अब्रवीत् कोपात् सुपर्णो नन्दिनो ऽन्तिके
यद् यत् प्रियतमं किंचिद् भृत्येभ्यः प्रभविष्णवः दास्यन्त्य् अन्ये भवान् नैव मयानीतं हरिष्यति
पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना मयोपपादितं नागं त्वं तु दास्यसि नन्दिने
त्वां वहामि सदा स्वामिन् मम देयं सदा त्वया मयोपपादितं नागं वक्तुं देहीति नोचितम्
सतां प्रभूणां नेयं स्याद् वृत्तिः सद्वृत्तिकारिणाम् सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान्
दैत्याञ् जयसि संग्रामे मद्बलेनैव केशव अहं महाबलीत्य् एवं मुधैव श्लाघते भवान्
गरुडस्येति तद् वाक्यं श्रुत्वा चक्रगदाधरः विहस्य नन्दिनः पार्श्वे पश्यद्भिर् लोकपालकैः
इदम् आह महाबुद्धिर् मां समुह्य कृशो भवान् त्वद्बलाद् असुरान् सर्वाञ् जेष्ये ऽहं खगसत्तम
इत्य् उक्त्वा श्रीपतिर् ब्रह्मञ् शान्तकोपो ऽब्रवीद् इदम् वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनो ऽन्तिके
गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनर् अब्रवीत् सत्यं मां वहसे नित्यं पश्य धर्मं विहंगम
न्यस्तायां च ततो ऽङ्गुल्यां शिरः कुक्षौ समाविशत् कुक्षिश् च चरणस्यान्तः प्राविशच् चूर्णितो ऽभवत् ततः कृताञ्जलिर् दीनो व्यथितो लज्जयान्वितः
त्राहि त्राहि जगन्नाथ भृत्यं माम् अपराधिनम् त्वं प्रभुः सर्वलोकानां धर्ता धार्यस् त्वम् एव च
अपराधसहस्राणि क्षमन्ते प्रभविष्णवः कृतापराधे ऽपि जने महती यस्य वै कृपा
वदन्ति मुनयः सर्वे त्वाम् एव करुणाकरम् रक्षस्वार्तं जगन्मातर् माम् अम्बुजनिवासिनि कमले बालकं दीनम् आर्तं तनयवत्सले
ततः कृपान्विता देवी श्रीर् अप्य् आह जनार्दनम्
रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् जनार्दन उवाचेदं नन्दिनं शंभुवाहनम्
नय नागं सगरुडं शंभोर् अन्तिकम् एव च तत्प्रसादाच् च गरुडो महेश्वरनिरीक्षितः आत्मीयं च पुना रूपं गरुडः समवाप्स्यति
तथेत्य् उक्त्वा च वृषभो नागेन गरुडेन च शनैः स शंकरं गत्वा सर्वं तस्मै न्यवेदयत् शंकरो ऽपि गरुत्मन्तं प्रोवाच शशिशेखरः
याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् सर्वकामप्रदां शान्तां ताम् आप्लुत्य पुनर् वपुः
प्राप्स्यसे सर्वकामांश् च शतधाथ सहस्रधा सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः प्राणिनो ऽभीष्टदा तेषां शरणं खग गौतमी
तद्वाक्यं प्रणतो भूत्वा श्रुत्वा तु गरुडो ऽभ्यगात् गङ्गाम् आप्लुत्य गरुडः शिवं विष्णुं ननाम सः
ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः वेगी भवन् मुनिश्रेष्ठ पुनर् विष्णुम् इयात् सुधीः
ततः प्रभृति तत् तीर्थं गारुडं सर्वकामदम् तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः सर्वं तद् अक्षयं वत्स शिवविष्णुप्रियावहम्
ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् पितॄणां पुण्यजननं स्मरणाद् अपि पापनुत्
तस्य प्रभाव एष स्यान् मया दृष्टस् तु नारद ब्राह्मणः कर्षकः कश्चिज् जाबालिर् इति विश्रुतः
न विमुञ्चत्य् अनड्वाहौ मध्यं याते ऽपि भास्करे प्रतोदेन प्रतुदति पृष्ठतो ऽपि च पार्श्वयोः
तौ गावाव् अश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी सुरभिर् जगतां माता नन्दिने सर्वम् अब्रवीत्