देवतानाम् अवध्यश् च महाकायो महाबलः अन्तर्भूमिगतस् तत्र वालुकान्तर्हितो महान्
राक्षसस्य मधोः पुत्रो धुन्धुर् नाम महासुरः शेते लोकविनाशाय तप आस्थाय दारुणम्
संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति यदा तदा मही तत्र चलति स्म नराधिप
तस्य निःश्वासवातेन रज उद्धूयते महत् आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम्
सविस्फुलिङ्गं साङ्गारं सधूमम् अतिदारुणम् तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे
तं मारय महाकायं लोकानां हितकाम्यया लोकाः स्वस्था भवन्त्य् अद्य तस्मिन् विनिहते त्वया
त्वं हि तस्य वधायैकः समर्थः पृथिवीपते विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप
यस् तं महासुरं रौद्रं हनिष्यति महाबलम् तस्य त्वं वरदानेन तेजश् चाख्यापयिष्यसि
नहि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते निर्दग्धुं पृथिवीपाल चिरं युगशतैर् अपि
वीर्यं च सुमहत् तस्य देवैर् अपि दुरासदम् स एवम् उक्तो राजर्षिर् उत्तङ्केन महात्मना कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे
भगवन् न्यस्तशस्त्रो ऽहम् अयं तु तनयो मम भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः
स तं व्यादिश्य तनयं राजर्षिर् धुन्धुमारणे जगाम पर्वतायैव नृपतिः संशितव्रतः
कुवलाश्वस् तु पुत्राणां शतेन सह भो द्विजाः प्रायाद् उत्तङ्कसहितो धुन्धोस् तस्य निबर्हणे
तम् आविशत् तदा विष्णुस् तेजसा भगवान् प्रभुः उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया
तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत् एष श्रीमान् अवध्यो ऽद्य धुन्धुमारो भविष्यति
दिव्यैर् गन्धैश् च माल्यैश् च तं देवाः समवाकिरन् देवदुन्दुभयश् चैव प्रणेदुर् द्विजसत्तमाः
स गत्वा जयतां श्रेष्ठस् तनयैः सह वीर्यवान् समुद्रं खानयाम् आस वालुकान्तरम् अव्ययम्
तस्य पुत्रैः खनद्भिश् च वालुकान्तर्हितस् तदा धुन्धुर् आसादितो विप्रा दिशम् आवृत्य पश्चिमाम्
मुखजेनाग्निना क्रोधाल् लोकान् उद्वर्तयन्न् इव वारि सुस्राव वेगेन महोदधिर् इवोदये
सौमस्य मुनिशार्दूला वरोर्मिकलिलो महान् तस्य पुत्रशतं दग्धं त्रिभिर् ऊनं तु रक्षसा
ततः स राजा द्युतिमान् राक्षसं तं महाबलम् आससाद महातेजा धुन्धुं धुन्धुविनाशनः
तस्य वारिमयं वेगम् आपीय स नराधिपः योगी योगेन वह्निं च शमयाम् आस वारिणा
निहत्य तं महाकायं बलेनोदकराक्षसम् उत्तङ्कं दर्शयाम् आस कृतकर्मा नराधिपः
उत्तङ्कस् तु वरं प्रादात् तस्मै राज्ञे महात्मने ददौ तस्याक्षयं वित्तं शत्रुभिश् चापराजितम्
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् पुत्राणां चाक्षयांल् लोकान् स्वर्गे ये रक्षसा हताः
तस्य पुत्रास् त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ
धौन्धुमारेर् दृढाश्वस्य हर्यश्वश् चात्मजः स्मृतः हर्यश्वस्य निकुम्भो ऽभूत् क्षत्रधर्मरतः सदा
संहताश्वो निकुम्भस्य सुतो रणविशारदः अकृशाश्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः
तस्य हैमवती कन्या सतां मता दृषद्वती विख्याता त्रिषु लोकेषु पुत्रश् चास्याः प्रसेनजित्
लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम् अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत्