धावन्तीं तां प्रियाम् अश्वाम् अश्वरूपधरः स्वयम् पर्यधावद् यतो याति उषा भानुस् ततस् ततः
स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते भागीरथीं नदीश् चान्या वनान्य् उपवनानि च
नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखाव् उभौ अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्य् अभ्यगाच् च गौतमीम्
त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् ऋषीणाम् आश्रमं साश्वा प्रविष्टा गौतमीं तथा
अनुप्राप्तस् तथा चाश्वो भानुस् तद्रूपवांस् ततः अश्वं निवारयाम् आसुर् जनस्था मुनिदारकाः ततः कोपाद् ऋषींस् तांश् च शशापोषापतिः प्रभुः
निवारयथ मां यस्माद् वटा यूयं भविष्यथ
ज्ञानदृष्ट्या तु मुनयो मेनिरे ऽश्वम् उषापतिम् स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा
स्तूयमानो मुनिगणैर् अश्वां भानुर् अथागमत् वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम्
ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद् वीर्यं प्रसुस्रुवे तयोर् वीर्येण गङ्गायाम् अश्विनौ समजायताम्
तत्रागच्छन् सुरगणाः सिद्धाश् च मुनयस् तथा नद्यो गावस् तथौषध्यो देवा ज्योतिर्गणास् तथा
सप्ताश्वश् च रथः पुण्यो ह्य् अरुणो भानुसारथिः यमो मनुश् च वरुणः शनिर् वैवस्वतस् तथा
यमुना च नदी पुण्या तापी चैव महानदी तत्तद्रूपं समास्थाय नद्यस् ता विस्मयान् मुने
द्रष्टुं ते विस्मयाविष्टा आजग्मुः श्वशुरस् तथा अभिप्रायं विदित्वा तु श्वशुरं भानुर् अब्रवीत्
उषायाः प्रीतये त्वष्टः कुर्वत्यास् तप उत्तमम् यन्त्रारूढं च मां कृत्वा छिन्धि तेजांस्य् अनेकशः यावत् सौख्यं भवेद् अस्यास् तावच् छिन्धि प्रजापते
तथेत्य् उक्त्वा ततस् त्वष्टा सोमनाथस्य संनिधौ तेजसां छेदनं चक्रे प्रभासं तु ततो विदुः
भर्त्रा च संगता यत्र गौतम्याम् अश्वरूपिणी अश्विनोर् यत्र चोत्पत्तिर् अश्वतीर्थं तद् उच्यते
भानुतीर्थं तद् आख्यातं तथा पञ्चवटाश्रमः तापी च यमुना चैव पितरं द्रष्टुम् आगते
अरुणावरुणानद्योर् गङ्गायां संगमः शुभः देवानां तत्र तीर्थानाम् आगतानां पृथक् पृथक्
नव त्रीणि सहस्राणि तीर्थानि गुणवन्ति च तत्र स्नानं च दानं च सर्वम् अक्षयपुण्यदम्
स्मरणात् पठनाद् वापि श्रवणाद् अपि नारद सर्वपापविनिर्मुक्तो धर्मवान् स सुखी भवेत्
गारुडं नाम यत् तीर्थं सर्वविघ्नप्रशान्तिदम् तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः
मणिनाग इति त्व् आसीच् छेषपुत्रो महाबलः गरुडस्य भयाद् भक्त्या तोषयाम् आस शंकरम्
ततः प्रसन्नो भगवान् परमेष्ठी महेश्वरः तम् उवाच महानागं वरं वरय पन्नग
नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् तथेत्य् आह च तं शंभुर् गरुडाद् अभयं भवेत्
निर्गतो निर्भयो नागो गरुडाद् अरुणानुजात् क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः
इतश् चेतश् च चरति नागो ऽसौ सुखशीतले गरुडो ऽपि च यत्रास्ते तं देशम् अपि यात्य् असौ
गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु तं गृहीत्वा महानागं प्राक्षिपत् स्वस्य वेश्मनि
तं बद्ध्वा गारुडैः पाशैर् गरुडो नागसत्तमम् एतस्मिन्न् अन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम्
नूनं नागो न चायाति भक्षितो बद्ध एव वा गरुडेन सुरेशान जीवन् नागो न संव्रजेत्
नन्दिनो वचनं श्रुत्वा ज्ञात्वा शंभुर् अथाब्रवीत्