नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये तथेत्य् आह च सा छाया निर्जगाम गृहाद् उषा
इत्य् उक्त्वा सा जगामाशु शान्तं रूपम् अभीप्सती सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः
नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम् अपत्यानां कथं वृत्तिर् भर्तुर् वा सवितुस् तव बिभेमि भद्रे शिष्टो ऽहं भर्तुर् गेहं पुनर् व्रज
एवम् उक्ता तु पित्रा सा नेत्य् उक्त्वा वै पुनः पुनः उत्तरं च कुरोर् देशं जगाम तपसे त्वरा
तत्र तेपे तपस् तीव्रं वडवारूपधारिणी दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा
एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी पत्यौ सा वर्तयाम् आस अपत्यान्य् अथ जज्ञिरे
सावर्णिश् च शनिश् चैव विष्टिर् या दुष्टकन्यका सा छाया वर्तयाम् आस वैषम्येणैव नित्यशः
स्वेष्व् अपत्येषु चोषाया यमस् तत्र चुकोप ह वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा
ताडयाम् आस पादेन दक्षिणाशापतिर् यमः पुत्रदौर्जन्यसंक्षोभाच् छाया वैवस्वतं यमम्
शशाप पाप ते पादो विशीर्यतु ममाज्ञया विशीर्णचरणो दुःखाद् रुदन् पितरम् अभ्यगात् सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः
नेयं माता सुरश्रेष्ठ यया शप्तो ऽहम् ईदृशः अपत्येषु विरुद्धेषु जननी नैव कुप्यते
यद् बाल्याद् अब्रवं किंचिद् अथवा दुष्कृतं कृतम् नैव कुप्यति सा माता तस्मान् नेयं ममाम्बिका
यद् अपत्यकृतं किंचित् साध्व् असाधु यथा तथा मात्य् अस्यां सर्वम् अप्य् एतत् तस्मान् मातेति गीयते
प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा वक्त्य् अग्निकालसदृशा वाचा नेयं मदम्बिका
तत् पुत्रवचनं श्रुत्वा सविताचिन्तयत् ततः इयं छाया नास्य माता उषा माता तु सान्यतः
मम शान्तिम् अभीप्सन्ती देशे ऽन्यस्मिंस् तपोरता उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी
तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा
तां दृष्ट्वा वडवारूपां पर्यधावद् धयाकृतिः कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम्
उषा पतिव्रतोपेता पतिध्यानपरायणा हयधर्षणसंभीता को न्व् अयं चेत्य् अजानती
अपलायत् पतौ प्राप्ते दक्षिणाभिमुखी त्वरा को नु मे रक्षको ऽत्र स्याद् ऋषयो वाथवा सुराः
धावन्तीं तां प्रियाम् अश्वाम् अश्वरूपधरः स्वयम् पर्यधावद् यतो याति उषा भानुस् ततस् ततः
स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते भागीरथीं नदीश् चान्या वनान्य् उपवनानि च
नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखाव् उभौ अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्य् अभ्यगाच् च गौतमीम्
त्रातारः सन्ति मुनयो जनस्थान इति श्रुतम् ऋषीणाम् आश्रमं साश्वा प्रविष्टा गौतमीं तथा
अनुप्राप्तस् तथा चाश्वो भानुस् तद्रूपवांस् ततः अश्वं निवारयाम् आसुर् जनस्था मुनिदारकाः ततः कोपाद् ऋषींस् तांश् च शशापोषापतिः प्रभुः
निवारयथ मां यस्माद् वटा यूयं भविष्यथ
ज्ञानदृष्ट्या तु मुनयो मेनिरे ऽश्वम् उषापतिम् स्तुवन्तो देवदेवेशं भानुं तं मुनयो मुदा
स्तूयमानो मुनिगणैर् अश्वां भानुर् अथागमत् वडवाया मुखे लग्नं मुखं चाश्वस्वरूपिणम्
ज्ञात्वा त्वाष्ट्री च भर्तारं मुखाद् वीर्यं प्रसुस्रुवे तयोर् वीर्येण गङ्गायाम् अश्विनौ समजायताम्
तत्रागच्छन् सुरगणाः सिद्धाश् च मुनयस् तथा नद्यो गावस् तथौषध्यो देवा ज्योतिर्गणास् तथा