जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित् आश्रमाणि च चत्वारि कर्मद्वाराणि मानद
चतुर्णाम् आश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् तस्माद् भुक्तिश् च मुक्तिश् च भवतीति मतिर् मम
एतच् छ्रुत्वा तु जनको याज्ञवल्क्यश् च बुद्धिमान् वरुणं पूजयित्वा तु पुनर् वचनम् ऊचतुः
को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम् तद् वदस्व सुरश्रेष्ठ सर्वज्ञो ऽसि नमो ऽस्तु ते
पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम्
तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् तत्र यज्ञेन दानेन भोगान् मुक्तिम् अवाप्स्यति
याज्ञवल्क्यश् च जनको वाचं श्रुत्वा ह्य् अपांपतेः वरुणेन ह्य् अनुज्ञातौ स्वपुरीं जग्मतुस् तदा
अश्वमेधादिकं कर्म चकार जनको नृपः याजयाम् आस विप्रेन्द्रो याज्ञवल्क्यश् च तं नृपम्
गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिम् अवाप राट् तथा जनकराजानो बहवस् तत्र कर्मणा
मुक्तिं प्रापुर् महाभागा गौतम्याश् च प्रसादतः ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम्
जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् चतुर्योजनविस्तीर्णं स्मरणात् सर्वपापनुत्
तत्र स्नानेन दानेन पितॄणां तर्पणेन तु तीर्थस्य स्मरणाद् वापि गमनाद् भक्तिसेवनात्
सर्वान् कामान् अवाप्नोति मुक्तिं च समवाप्नुयात्
अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे तयोश् च संगमः पुण्यो गङ्गायां मुनिसत्तम
तदुत्पत्तिं शृणुष्वेह सर्वपापविनाशिनीम् कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः
त्रैलोक्यचक्षुस् तीक्ष्णांशुः सप्ताश्वो लोकपूजितः तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी
भर्तुः प्रतापतीव्रत्वम् असहन्ती सुमध्यमा चिन्तयाम् आस किं कृत्यं मम स्याद् इति भामिनी
तस्याः पुत्रौ महाराज्ञौ मनुर् वैवस्वतो यमः यमुना च नदी पुण्या शृणु विस्मयकारणम्
साकरोद् आत्मनश् छायाम् आत्मरूपेण यत्नतः ताम् अब्रवीत् ततश् चोषा त्वं च मत्सदृशी भव
भर्तारं त्वम् अपत्यानि पालयस्व ममाज्ञया यावद् आगमनं मे स्यात् पत्युस् तावत् प्रिया भव
नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये तथेत्य् आह च सा छाया निर्जगाम गृहाद् उषा
इत्य् उक्त्वा सा जगामाशु शान्तं रूपम् अभीप्सती सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः
नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम् अपत्यानां कथं वृत्तिर् भर्तुर् वा सवितुस् तव बिभेमि भद्रे शिष्टो ऽहं भर्तुर् गेहं पुनर् व्रज
एवम् उक्ता तु पित्रा सा नेत्य् उक्त्वा वै पुनः पुनः उत्तरं च कुरोर् देशं जगाम तपसे त्वरा
तत्र तेपे तपस् तीव्रं वडवारूपधारिणी दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा
एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी पत्यौ सा वर्तयाम् आस अपत्यान्य् अथ जज्ञिरे
सावर्णिश् च शनिश् चैव विष्टिर् या दुष्टकन्यका सा छाया वर्तयाम् आस वैषम्येणैव नित्यशः
स्वेष्व् अपत्येषु चोषाया यमस् तत्र चुकोप ह वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा
ताडयाम् आस पादेन दक्षिणाशापतिर् यमः पुत्रदौर्जन्यसंक्षोभाच् छाया वैवस्वतं यमम्
शशाप पाप ते पादो विशीर्यतु ममाज्ञया विशीर्णचरणो दुःखाद् रुदन् पितरम् अभ्यगात् सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः