यदा तु संगता भद्रे गौतम्या सरिदीशया नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन् मम
इत्य् ऋषेर् वचनं श्रुत्वा तथा चक्रे पतिव्रता तया तु संगता देव्या अहल्या गौतमप्रिया
पुनस् तद् रूपम् अभवद् यन् मया निर्मितं पुरा ततः कृताञ्जलिपुटः सुरराट् प्राह गौतमम्
मां पाहि मुनिशार्दूल पापिष्ठं गृहम् आगतम् पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः
गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरंदर क्षणान् निर्धूतपापस् त्वं सहस्राक्षो भविष्यसि
उभयं विस्मयकरं दृष्टवान् अस्मि नारद अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक्
ततः प्रभृति तत् तीर्थम् अहल्यासंगमं शुभम् इन्द्रतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम्
तस्माद् अप्य् अपरं तीर्थं जनस्थानम् इति श्रुतम् चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम्
वैवस्वतान्वये जातो राजाभूज् जनकः पुरा सो ऽपांपतेस् तु तनुजाम् उपयेमे गुणार्णवाम्
धर्मार्थकाममोक्षाणां जनकां जनको नृपः अनुरूपगुणत्वाच् च तस्य भार्या गुणार्णवा
याज्ञवल्क्यश् च विप्रेन्द्रस् तस्य राज्ञः पुरोहितः तम् अपृच्छन् नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम्
भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः दासीदासेभतुरगरथाद्यैर् भुक्तिर् उत्तमा
किंत्व् अन्तविरसा भुक्तिर् मुक्तिर् एका निरत्यया भुक्तेर् मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत्
सर्वसङ्गपरित्यागान् मुक्तिप्राप्तिः सुदुःखतः तद् ब्रूहि द्विजशार्दूल सुखान् मुक्तिः कथं भवेत्
अपांपतिस् तव गुरुः श्वशुरः प्रियकृत् तथा तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम्
याज्ञवल्क्यश् च जनको राजानं वरुणं तदा गत्वा चोचतुर् अव्यग्रौ मुक्तिमार्गं यथाक्रमम्
द्विधा तु संस्थिता मुक्तिः कर्मद्वारे ऽप्य् अकर्मणि वेदे च निश्चितो मार्गः कर्म ज्यायो ह्य् अकर्मणः
सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते
कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम तस्मात् सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः
तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः अकर्मणः कर्म पुण्यं कर्म चाप्य् आश्रमेषु च
जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित् आश्रमाणि च चत्वारि कर्मद्वाराणि मानद
चतुर्णाम् आश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् तस्माद् भुक्तिश् च मुक्तिश् च भवतीति मतिर् मम
एतच् छ्रुत्वा तु जनको याज्ञवल्क्यश् च बुद्धिमान् वरुणं पूजयित्वा तु पुनर् वचनम् ऊचतुः
को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम् तद् वदस्व सुरश्रेष्ठ सर्वज्ञो ऽसि नमो ऽस्तु ते
पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम्
तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् तत्र यज्ञेन दानेन भोगान् मुक्तिम् अवाप्स्यति
याज्ञवल्क्यश् च जनको वाचं श्रुत्वा ह्य् अपांपतेः वरुणेन ह्य् अनुज्ञातौ स्वपुरीं जग्मतुस् तदा
अश्वमेधादिकं कर्म चकार जनको नृपः याजयाम् आस विप्रेन्द्रो याज्ञवल्क्यश् च तं नृपम्
गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिम् अवाप राट् तथा जनकराजानो बहवस् तत्र कर्मणा
मुक्तिं प्रापुर् महाभागा गौतम्याश् च प्रसादतः ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम्