आकृष्टो ऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः इति ब्रुवन् हसन् हस्तम् आदायान्तः समाविशत्
न बुबोध त्व् अहल्या तं जारं मेने तु गौतमम् रममाणा यथासौख्यं प्रागाच् छिष्यैः स गौतमः
आगच्छन्तं नित्यम् एव अहल्या प्रियवादिनी प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः
ताम् अदृष्ट्वा महाप्राज्ञो मेने तन् महद् अद्भुतम् द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद
अग्निहोत्रस्य शालाया रक्षिणो गृहकर्मिणः ऊचुर् मुनिवरं भीता गौतमं विस्मयान्विताः
भगवन् किम् इदं चित्रं बहिर् अन्तश् च दृश्यसे प्रिययान्तः प्रविष्टो ऽसि तथैव च बहिर् भवान् अहो तपःप्रभावो ऽयं नानारूपधरो भवान्
तच् छ्रुत्वा विस्मितस् त्व् अन्तः प्रविष्टः को नु तिष्ठति प्रिये अहल्ये भवति किं मां न प्रतिभाषसे इत्य् ऋषेर् वचनं श्रुत्वा अहल्या जारम् अब्रवीत्
को भवान् मुनिरूपेण पापं त्वं कृतवान् असि इति ब्रुवती शयनाद् उत्थिता सत्वरं भयात्
स चापि पापकृच् छक्रो बिडालो ऽभून् मुनेर् भयात् त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा
उवाच स मुनिः कोपात् किम् इदं साहसं कृतम् इति ब्रुवन्तं भर्तारं सापि नोवाच लज्जिता
अन्वेषयंस् तु तं जारं बिडालं ददृशे मुनिः को भवान् इति तं प्राह भस्मीकुर्यां मृषावदन्
कृताञ्जलिपुटो भूत्वा चैवम् आह शचीपतिः शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः
ममेदं पापम् आपन्नं सत्यम् उक्तं मयानघ महद्विगर्हितं कर्म कृतवान् अस्म्य् अहं मुने
स्मरसायकनिर्भिन्नहृदयाः किं न कुर्वते ब्रह्मन् मयि महापापे क्षमस्व करुणानिधे
सन्तः कृतापराधे ऽपि न रौक्ष्यं जातु कुर्वते निशम्य तद् वचो विप्रो हरिम् आह रुषान्वितः
भगभक्त्या कृतं पापं सहस्रभगवान् भव ताम् अप्य् आह मुनिः कोपात् त्वं च शुष्कनदी भव
ततः प्रसादयाम् आस कथयन्ती तदाकृतिम्
मनसाप्य् अन्यपुरुषं पापिष्ठाः कामयन्ति याः अक्षयान् यान्ति नरकांस् तासां सर्वे ऽपि पूर्वजाः
भूत्वा प्रसन्नो भगवन्न् अवधारय मद्वचः तव रूपेण चागत्य माम् अगात् साक्षिणस् त्व् इमे
तथेति रक्षिणः प्रोचुर् अहल्या सत्यवादिनी ध्यानेनापि मुनिर् ज्ञात्वा शान्तः प्राह पतिव्रताम्
यदा तु संगता भद्रे गौतम्या सरिदीशया नदी भूत्वा पुना रूपं प्राप्स्यसे प्रियकृन् मम
इत्य् ऋषेर् वचनं श्रुत्वा तथा चक्रे पतिव्रता तया तु संगता देव्या अहल्या गौतमप्रिया
पुनस् तद् रूपम् अभवद् यन् मया निर्मितं पुरा ततः कृताञ्जलिपुटः सुरराट् प्राह गौतमम्
मां पाहि मुनिशार्दूल पापिष्ठं गृहम् आगतम् पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः
गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरंदर क्षणान् निर्धूतपापस् त्वं सहस्राक्षो भविष्यसि
उभयं विस्मयकरं दृष्टवान् अस्मि नारद अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक्
ततः प्रभृति तत् तीर्थम् अहल्यासंगमं शुभम् इन्द्रतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम्
तस्माद् अप्य् अपरं तीर्थं जनस्थानम् इति श्रुतम् चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम्
वैवस्वतान्वये जातो राजाभूज् जनकः पुरा सो ऽपांपतेस् तु तनुजाम् उपयेमे गुणार्णवाम्
धर्मार्थकाममोक्षाणां जनकां जनको नृपः अनुरूपगुणत्वाच् च तस्य भार्या गुणार्णवा