स्मृत्वा सुविस्मितो भूत्वा ममैवम् अभवत् सुधीः देयेयं गौतमायैव नान्ययोग्या शुभानना
तस्माऐ एव तु तां दास्ये तथाप्य् एवम् अचिन्तयम् सर्वेषां च मतिर् धैर्यं मथितं बालयानया
अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस् तदा देवान् ऋषींस् तदा वीक्ष्य मया तत्रोक्तम् उच्चकैः
तस्मै सा दीयते सुभ्रूर् यः पृथिव्याः प्रदक्षिणाम् कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः
ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् अहल्यार्थं सुरा जग्मुः पृथिव्याश् च प्रदक्षिणे
गतेषु सुरसंघेषु गौतमो ऽपि मुनीश्वर प्रयत्नम् अकरोत् किंचिद् अहल्यार्थम् इमं तथा
एतस्मिन्न् अन्तरे ब्रह्मन् सुरभिः सर्वकामधुक् अर्धप्रसूता ह्य् अभवत् तां ददर्श स गौतमः
तस्याः प्रदक्षिणं चक्रे इयम् उर्वीति संस्मरन् लिङ्गस्य च सुरेशस्य प्रदक्षिणम् अथाकरोत्
तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः सर्वेषां चैव देवानाम् एकं चापि प्रदक्षिणम्
नैवाभवद् भुवो गन्तुः संजातं द्वितयं मम एवं निश्चित्य स मुनिर् ममान्तिकम् अथाभ्यगात्
नमस्कृत्वाब्रवीद् वाक्यं गौतमो मां महामतिः कमलासन विश्वात्मन् नमस् ते ऽस्तु पुनः पुनः
प्रदक्षिणीकृता ब्रह्मन् मयेयं वसुधाखिला यद् अत्र युक्तं देवेश जानीते तद् भवान् स्वयम्
मया तु ध्यानयोगेन ज्ञात्वा गौतमम् अब्रवम् तवैव दीयते सुभ्रूः प्रदक्षिणम् इदं कृतम्
धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैर् अपि अर्धप्रसूता सुरभिः सप्तद्वीपवती मही
कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् लिङ्गं प्रदक्षिणीकृत्य तद् एव फलम् आप्नुयात्
तस्मात् सर्वप्रयत्नेन मुने गौतम सुव्रत तुष्टो ऽहं तव धैर्येण ज्ञानेन तपसा तथा
दत्तेयम् ऋषिशार्दूल कन्या लोकवरा मया इत्य् उक्त्वाहं गौतमाय अहल्याम् अददां मुने
जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् शनैः शनैर् अथागत्य ददृशुः सर्व एव ते
तं गौतमम् अहल्यां च दांपत्यं प्रीतिवर्धनम् ते चागत्याथ पश्यन्तो विस्मिताश् चाभवन् सुराः
अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः समत्सरः शचीभर्ता ताम् ईक्ष्य च दिवं ययौ
ततः प्रीतमनास् तस्मै गौतमाय महात्मने प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम्
अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः गौतमस्य कथां पुण्यां श्रुत्वा शक्रस् त्रिविष्टपे
तम् आश्रमं तं च मुनिं तस्य भार्याम् अनिन्दिताम् भूत्वा ब्राह्मणवेषेण द्रष्टुम् आगाच् छतक्रतुः
स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत
नात्मानं न परं देशं कालं शापाद् ऋषेर् भयम् न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः
तद्ध्यानपरमो नित्यं सुरराज्येन गर्वितः संतप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत्
एवं वसन् विप्ररूपो नान्तरं त्व् अध्यगच्छत स कदाचिन् महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रियाम्
सहितो गौतमः शिष्यैर् निर्गतश् चाश्रमाद् बहिः आश्रमं गौतमीं विप्रान् धान्यानि विविधानि च
द्रष्टुं गतो मुनिवर इन्द्रस् तं समुदैक्षत इदम् अन्तरम् इत्य् उक्त्वा चक्रे कार्यं मनःप्रियम्
रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः तां दृष्ट्वा चारुसर्वाङ्गीम् अहल्यां वाक्यम् अब्रवीत्