इति श्रुत्वा वचस् तस्याः शक्रः सुरवरेश्वरः आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा
गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् कृतकृत्यागता भूयो वल्लभा मे यथा शची
इत्य् आकर्ण्य वचः शक्राद् उत्पत्य गणिका दिशः क्षणेन यमसांनिध्यम् आयाता चारुरूपिणी
यमान्तिकम् अनुप्राप्ता द्योतयन्ती दिशो दश सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम्
ततश् चचाल कालस्य मनो लोलं चलाचलम् अथोन्मील्य यमो नेत्रे कामपावकपूरिते
तस्यां व्यापारयाम् आस श्रेयःशत्रौ महामुने ततो विलीय सा सद्यः सरित्त्वम् अगमत् तदा
गौतम्यां तु समागम्य गणिकागणकिंकरैः गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः
गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति विस्मयं परमं प्राप्तः कालस् तरललोचनः अथादित्येन चागत्य एवम् उक्तो यमस् तदा
कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः
इति श्रुत्वा यमो वाक्यं पितुर् वचनम् अब्रवीत्
एतन् न गर्हितं कर्म कुर्याम् अहम् इदं ध्रुवम् कर्मण्य् अस्मिन् महाक्रूरे समादेष्टुं न वार्हसि
इति श्रुत्वा च तद् वाक्यं भानुर् वचनम् अब्रवीत् किं नाम गर्हितं कर्म तव कर्तुम् अलं यम
किं न दृष्टा त्वया यान्ती गणिका गणकिंकरैः गीयमाना दिवं सद्यो गौतमीतोयम् आप्लुता
त्वया चात्र तपस् तीव्रं कृतं पुत्र सुदुष्करम् नैवान्तं तस्य पश्यामि तस्माद् गच्छ निजं पुरम्
इत्य् उक्त्वा भगवान् भानुस् तत्र स्नात्वा गतो दिवम् यमो ऽपि संगमे स्नात्वा ततो निजपुरं ययौ
भूतहापि ततः शङ्कां तत्याज च महामुने तथा दृष्ट्वा यमं यान्तं चक्रे चक्रं प्रयाणकम्
भगवान् यत्र गोविन्दो वनमालाविभूषितः इति यः शृणुयान् मर्त्यः पठेद् वापि समाहितः
आपदस् तस्य नश्यन्ति दीर्घम् आयुर् अवाप्नुयात्
अहल्यासंगमं चेह तीर्थं त्रैलोक्यपावनम् शृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तम् इदं यथा
कौतुकेनातिमहता मया पूर्वं मुनीश्वर सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः
तासाम् एकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम्
को वास्याः पोषणे शक्त इति मे बुद्धिर् आविशत् न दैत्यानां सुराणां च न मुनीनां तथैव च
नास्त्य् अस्याः पोषणे शक्तिर् इति मे बुद्धिर् अन्वभूत् गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते
सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने गौतमाय महाप्राज्ञाम् अददां पोषणाय ताम्
पालयस्व मुनिश्रेष्ठ यावद् आप्स्यति यौवनम् यौवनस्थां पुनः साध्वीम् आनयेथा ममान्तिकम्
एवम् उक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् ताम् आदाय मुनिश्रेष्ठ तपसा हतकल्मषः
तां पोषयित्वा विधिवद् अलंकृत्य ममान्तिकम् निर्विकारो मुनिश्रेष्ठो ह्य् अहल्याम् आनयत् तदा
तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः मम देया सुरेशान इत्य् ऊचुस् ते पृथक् पृथक्
तथैव मुनयः साध्या दानवा यक्षराक्षसाः तान् सर्वान् आगतान् दृष्ट्वा कन्यार्थम् अथ संगतान्
इन्द्रस्य तु विशेषेण महांश् चाभूत् तदा ग्रहः गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यम् एव च