भारेण गुरुणा शक्र पीडिताहं विना वधम् कारणं प्रष्टुम् आयाता किम् इदं कथ्यतां मम
इति श्रुत्वा महीवाक्यम् इन्द्रो वचनम् अब्रवीत्
कारणं यदि नाम स्यात् तदानीं ज्ञायते मया सुराणां हि पतिर् यस्माद् अहं सर्वासु मेदिनि
अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् यम आदिश्यतां तर्हि यथा संहरते प्रजाः
इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिंनराः यमस्यानयने शीघ्रं महेन्द्रेण महामुने
ततस् ते सत्वरं याताः सर्वे वैवस्वतं पुरम् नैवापश्यन् यमं तत्र ते सिद्धाः सह किंनरैः तथागत्य पुनर् वेगाद् वार्त्ता शक्रे निवेदिता
यमो यमपुरे नाथ अस्माभिर् नावलोकितः महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः
इति श्रुत्वा वचस् तेषां पृष्टः शक्रेण वै तदा सविता स पिता तस्य यमः कुत्रास्त इत्य् अथ
शक्र गोदावरीतीरे कृतान्तो वर्तते ऽधुना चरंस् तत्र तपस् तीव्रं न जाने किं नु कारणम्
इति श्रुत्वा वचो भानोः शक्रः शङ्काम् उपाविशत्
अहो कष्टं महाकष्टं नष्टा मे सुरनाथता गोदावर्यां तपः कुर्याद् यमो वै दुष्टचेष्टितः जिघृक्षुर् मत्पदं नूनं देवा इति मतिर् मम
इत्य् उक्त्वा सहसेन्द्रेण आहूतश् चाप्सरोगणः
का भवतीषु कालस्य स्थितस्य तपसि द्विषः तपःप्रणाशने शक्ता इति मे शीघ्रम् उच्यताम्
इति शक्रवचः श्रुत्वा नोचे कापि महामुने अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम्
उत्तरं नाब्रवीत् किंचिद् यामस् तर्हि वयं स्वयम् सज्जा भवन्तु विबुधाः सैन्यैर् आयान्तु मा चिरम् घातयामो वयं शत्रुं तपसा स्वर्गकामुकम्
इत्य् उक्ते सति देवानां सेना प्रादुर्बभूव ह इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा
प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि चक्रं यत्राभवत् तत्र चक्रतीर्थम् अनुत्तमम्
अथेन्द्रं मेनका प्राह शङ्कितेति वचस् तदा
कालावलोकने नालं काचिद् अस्ति सुरेश्वर मरणं च वरं देव भवतो न यमात् पुनः
रूपयौवनमत्तेयं गणिकायाचनं प्रभो प्रेषणं तत् प्रयच्छैषा स्वामित्वं मन्यते त्वया
इति श्रुत्वा वचस् तस्याः शक्रः सुरवरेश्वरः आदिदेशाबलां क्षामां सत्कृत्य गणिकां तथा
गणिके गच्छ मे कार्यं कुरु सुन्दरि मा चिरम् कृतकृत्यागता भूयो वल्लभा मे यथा शची
इत्य् आकर्ण्य वचः शक्राद् उत्पत्य गणिका दिशः क्षणेन यमसांनिध्यम् आयाता चारुरूपिणी
यमान्तिकम् अनुप्राप्ता द्योतयन्ती दिशो दश सलीलं ललितं बाला जगौ हिन्दोलकङ्कलम्
ततश् चचाल कालस्य मनो लोलं चलाचलम् अथोन्मील्य यमो नेत्रे कामपावकपूरिते
तस्यां व्यापारयाम् आस श्रेयःशत्रौ महामुने ततो विलीय सा सद्यः सरित्त्वम् अगमत् तदा
गौतम्यां तु समागम्य गणिकागणकिंकरैः गीयमाना गता स्वर्गे तस्य तीर्थप्रभावतः
गच्छन्तीं गणिकां दृष्ट्वा विमानस्थां दिवं प्रति विस्मयं परमं प्राप्तः कालस् तरललोचनः अथादित्येन चागत्य एवम् उक्तो यमस् तदा
कुरु पुत्र निजं कर्म प्रजानां त्वं परिक्षयम् पश्य वातं सदा वान्तं सृजन्तं वेधसं प्रजाः पर्यटन्तं त्रिलोकीं मां वहन्तीं वसुधां प्रजाः
इति श्रुत्वा यमो वाक्यं पितुर् वचनम् अब्रवीत्