प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम्
देहि देवि मनोज्ञानि कामानि विभवं मम आयुर् वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे
इत्य् उक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः
मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि याहि पापतरे रूक्षे न भूयास् त्वं कदाचन
अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः तेषां दारिद्र्यदुःखानि न भवेयुर् वरो ऽपरः
अस्मिंस् तीर्थे महापुण्ये स्नानदानजपादिकम् ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते
यस् त्व् इदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरो ऽपरः
एवम् अस्त्व् इति चोक्त्वा ते कण्वं याते स्वम् आलयम् ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम् सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम्
अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थम् इति श्रुतम् तत्र स्नानान् नरो भक्त्या हरेर् लोकम् अवाप्नुयात्
एकादश्यां तु शुक्लायाम् उपोष्य पृथिवीपते गणिकासंगमे स्नात्वा प्राप्नुयाद् अक्षयं पदम्
पुरा तत्र यथा वृत्तं तन् मे निगदतः शृणु आसीद् विश्वधरो नाम वैश्यो बहुधनान्वितः
उत्तरे वयसि श्रेष्ठस् तस्य पुत्रो ऽभवद् ऋषे गुणवान् रूपसंपन्नो विलासी शुभदर्शनः
प्राणेभ्यो ऽपि प्रियः पुत्रः काले पञ्चत्वम् आगतः तथा दृष्ट्वा तु तं पुत्रं दंपती दुःखपीडितौ
कुर्वाते स्म तदा तेन सहैव मरणे मतिम् हा पुत्र हन्त कालेन पापेन सुदुरात्मना
यौवने वर्तमानो ऽपि नीतो ऽसि गुणसागर आवयोश् च तथैव त्वं प्राणेभ्यो ऽपि सुदुर्लभः
इत्थं तु रुदितं श्रुत्वा दंपत्योः करुणं यमः त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः
गोदावर्याः शुभे तीरे स्थितो ध्यायञ् जनार्दनम् अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः
इयत इति मे पृथ्वी कथ्यतां केन पूरिता न कश्चिन् म्रियते जन्तुर् भाराक्रान्ता वसुंधरा
ततो देवी गता तूर्णं वसुधा मुनिसत्तम यत्रास्ति सुरसंयुक्तः शक्रः परपुरंजयः दृष्ट्वा वसुंधराम् इन्द्रः प्रणिपत्येदम् अब्रवीत्
किम् आगमनकार्यं त इति मे पृथ्वि कथ्यताम्
भारेण गुरुणा शक्र पीडिताहं विना वधम् कारणं प्रष्टुम् आयाता किम् इदं कथ्यतां मम
इति श्रुत्वा महीवाक्यम् इन्द्रो वचनम् अब्रवीत्
कारणं यदि नाम स्यात् तदानीं ज्ञायते मया सुराणां हि पतिर् यस्माद् अहं सर्वासु मेदिनि
अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् यम आदिश्यतां तर्हि यथा संहरते प्रजाः
इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिंनराः यमस्यानयने शीघ्रं महेन्द्रेण महामुने
ततस् ते सत्वरं याताः सर्वे वैवस्वतं पुरम् नैवापश्यन् यमं तत्र ते सिद्धाः सह किंनरैः तथागत्य पुनर् वेगाद् वार्त्ता शक्रे निवेदिता
यमो यमपुरे नाथ अस्माभिर् नावलोकितः महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः
इति श्रुत्वा वचस् तेषां पृष्टः शक्रेण वै तदा सविता स पिता तस्य यमः कुत्रास्त इत्य् अथ
शक्र गोदावरीतीरे कृतान्तो वर्तते ऽधुना चरंस् तत्र तपस् तीव्रं न जाने किं नु कारणम्
इति श्रुत्वा वचो भानोः शक्रः शङ्काम् उपाविशत्