नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः
पृषध्रो हिंसयित्वा तु गुरोर् गां द्विजसत्तमाः शापाच् छूद्रत्वम् आपन्नो नवैते परिकीर्तिताः
वैवस्वतस्य तनया मुनेर् वै मुनिसत्तमाः क्षुवतस् तु मनोर् विप्रा इक्ष्वाकुर् अभवत् सुतः
तस्य पुत्रशतं त्व् आसीद् इक्ष्वाकोर् भूरिदक्षिणम् तेषां विकुक्षिर् ज्येष्ठस् तु विकुक्षित्वाद् अयोधताम्
प्राप्तः परमधर्मज्ञ सो ऽयोध्याधिपतिः प्रभुः शकुनिप्रमुखास् तस्य पुत्राः पञ्चशतं स्मृताः
उत्तरापथदेशस्य रक्षितारो महाबलाः चत्वारिंशद् दशाष्टौ च दक्षिणस्यां तथा दिशि
वशातिप्रमुखाश् चान्ये रक्षितारो द्विजोत्तमाः इक्ष्वाकुस् तु विकुक्षिं वाऐ अष्टकायाम् अथादिशत्
मांसम् आनय श्राद्धार्थं मृगान् हत्वा महाबल श्राद्धकर्मणि चोद्दिष्टो अकृते श्राद्धकर्मणि
भक्षयित्वा शशं विप्राः शशादो मृगयां गतः इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः
इक्ष्वाकौ संस्थिते विप्राः शशादस् तु नृपो ऽभवत् शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान्
अनेनास् तु ककुत्स्थस्य पृथुश् चानेनसः स्मृतः विष्टराश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् त्व् अजायत
आर्द्रस् तु युवनाश्वस् तु श्रावस्तस् तत्सुतो द्विजाः जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता
श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः कुवलाश्वः सुतस् तस्य राजा परमधार्मिकः
यः स धुन्धुवधाद् राजा धुन्धुमारत्वम् आगतः
धुन्धोर् वधं महाप्राज्ञ श्रोतुम् इच्छाम तत्त्वतः यद्वधात् कुवलाश्वो ऽसौ धुन्धुमारत्वम् आगतः
कुवलाश्वस्य पुत्राणां शतम् उत्तमधन्विनाम् सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः
बभूवुर् धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः कुवलाश्वं पिता राज्ये बृहदश्वो न्ययोजयत्
पुत्रसंक्रामितश्रीस् तु वनं राजा विवेश ह तम् उत्तङ्को ऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत्
भवता रक्षणं कार्यं तच् च कर्तुं त्वम् अर्हसि निरुद्विग्नस् तपश् चर्तुं नहि शक्नोमि पार्थिव
ममाश्रमसमीपे वै समेषु मरुधन्वसु समुद्रो वालुकापूर्ण उद्दालक इति स्मृतः
देवतानाम् अवध्यश् च महाकायो महाबलः अन्तर्भूमिगतस् तत्र वालुकान्तर्हितो महान्
राक्षसस्य मधोः पुत्रो धुन्धुर् नाम महासुरः शेते लोकविनाशाय तप आस्थाय दारुणम्
संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति यदा तदा मही तत्र चलति स्म नराधिप
तस्य निःश्वासवातेन रज उद्धूयते महत् आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम्
सविस्फुलिङ्गं साङ्गारं सधूमम् अतिदारुणम् तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे
तं मारय महाकायं लोकानां हितकाम्यया लोकाः स्वस्था भवन्त्य् अद्य तस्मिन् विनिहते त्वया
त्वं हि तस्य वधायैकः समर्थः पृथिवीपते विष्णुना च वरो दत्तो मह्यं पूर्वयुगे नृप
यस् तं महासुरं रौद्रं हनिष्यति महाबलम् तस्य त्वं वरदानेन तेजश् चाख्यापयिष्यसि
नहि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते निर्दग्धुं पृथिवीपाल चिरं युगशतैर् अपि
वीर्यं च सुमहत् तस्य देवैर् अपि दुरासदम् स एवम् उक्तो राजर्षिर् उत्तङ्केन महात्मना कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे