तथैव हनुमान् गङ्गाम् आदायाद्रिम् अतित्वरन् मार्जाररूपिणीं नीत्वा गौतम्यास् तीरम् आप्तवान्
ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा ब्रह्मणो गिरिम् आसाद्य सर्वकामप्रदं शुभम्
योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत् मार्जारसंज्ञितात् तस्माद् धनूमन्तं वृषाकपिम्
फेनासंगमम् आख्यातं सर्वकामप्रदं शुभम् तस्य स्वरूपं व्युष्टिश् च तत्रैव प्रोच्यते शुभा
क्षुधातीर्थम् इति ख्यातं शृणु नारद तन्मनाः कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम्
ऋषिर् आसीत् पुरा कण्वस् तपस्वी वेदवित्तमः परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः
गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम्
वीक्ष्य कण्वो ऽथ वैषम्यं वैराग्यम् अगमत् तदा गौतमो ऽपि द्विजश्रेष्ठो ह्य् अहं तपसि निष्ठितः
समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि न भोक्ष्ये ऽहं क्षुधार्तो ऽपि पीडिते ऽपि कलेवरे
गच्छेयं गौतमीं गङ्गाम् अर्जयेयं च संपदम् इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम्
स्नात्वा शुचिर् यतमना उपविश्य कुशासने तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम्
नमो ऽस्तु गङ्गे परमार्तिहारिणि नमः क्षुधे सर्वजनार्तिकारिणि नमो महेशानजटोद्भवे शुभे नमो महामृत्युमुखाद् विनिसृते
पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् सरिद्रूपेण सर्वेषां तापपापापहारिणि
क्षुधारूपेण सर्वेषां तापपापप्रदे नमः नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि
इत्य् एवं स्तुवतस् तस्य पुरस्ताद् अभवद् द्वयम् एकं गाङ्गं मनोहारि ह्य् अपरं भीषणाकृति पुनः कृताञ्जलिर् भूत्वा नमस्कृत्वा द्विजोत्तमः
सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे वैष्णवि त्र्यम्बके देवि गोदावरि नमो ऽस्तु ते
त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि सप्तधा सागरं यान्ति गोदावरि नमो ऽस्तु ते
सर्वपापकृतां पापे धर्मकामार्थनाशिनि दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः
तत् कण्ववचनं श्रुत्वा सुप्रीते आहतुर् द्विजम्
अभीष्टं वद कल्याण वरान् वरय सुव्रत
प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां यथाक्रमम्
देहि देवि मनोज्ञानि कामानि विभवं मम आयुर् वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे
इत्य् उक्त्वा गौतमीं गङ्गां क्षुधां चाह द्विजोत्तमः
मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि याहि पापतरे रूक्षे न भूयास् त्वं कदाचन
अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः तेषां दारिद्र्यदुःखानि न भवेयुर् वरो ऽपरः
अस्मिंस् तीर्थे महापुण्ये स्नानदानजपादिकम् ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते
यस् त्व् इदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरो ऽपरः
एवम् अस्त्व् इति चोक्त्वा ते कण्वं याते स्वम् आलयम् ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम् सर्वपापहरं वत्स पितॄणां प्रीतिवर्धनम्
अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थम् इति श्रुतम् तत्र स्नानान् नरो भक्त्या हरेर् लोकम् अवाप्नुयात्
एकादश्यां तु शुक्लायाम् उपोष्य पृथिवीपते गणिकासंगमे स्नात्वा प्राप्नुयाद् अक्षयं पदम्