तिला गावो धनं धान्यं यत् किंचिद् गौतमीतटे सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि
गङ्गातीरं समाश्रित्य ग्रासम् एकं ददाति यः तेनाहं सकला दत्ता किं मां भौवन दास्यसि
तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः तथेति मत्वा विप्रेभ्यो ह्य् अन्नं प्रादात् सुविस्तरम्
ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः दशानाम् अश्वमेधानां फलं स्नानाद् अवाप्यते
पैशाचं तीर्थम् अपरं पूजितं ब्रह्मवादिभिः तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे
गिरिर् ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा
अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी केसरी नाम तद्भर्ता अद्रिकेति तथापरा
सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा उत्तमाङ्गेन मार्जारी साप्य् आस्ते ऽञ्जनपर्वते
दक्षिणार्णवम् अभ्यागात् केसरी लोकविश्रुतः एतस्मिन्न् अन्तरे ऽगस्त्यो ऽञ्जनं पर्वतम् अभ्यगात्
अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम् पूजयाम् आसतुर् उभे यथान्यायं यथासुखम्
ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः ते आहतुर् उभे ऽगस्त्यं पुत्रौ देहि मुनीश्वर
सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ तथेत्य् उक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम्
ततः कदाचित् ते काले अञ्जना चाद्रिका तथा गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि
वायुश् च निरृतिश् चापि ते दृष्ट्वा सस्मितौ सुरौ कामाक्रान्तधियौ चोभौ तदा सत्वरम् ईयतुः
भार्ये भवेताम् उभयोर् आवां देवौ वरप्रदौ ते अप्य् ऊचतुर् अस्त्व् एतद् रेमाते गिरिमूर्धनि
अञ्जनायां तथा वायोर् हनुमान् समजायत अद्रिकायां च निरृतेर् अद्रिर् नाम पिशाचराट्
पुनस् ते आहतुर् उभे पुत्रौ जातौ मुनेर् वरात् आवयोर् विकृतं रूपम् उत्तमाङ्गेन दूषितम्
शापाच् छचीपतेस् तत्र युवाम् आज्ञातुम् अर्हथः ततः प्रोवाच भगवान् वायुश् च निरृतिस् तथा
गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति इत्य् उक्त्वा ताव् उभौ प्रीतौ तत्रैवान्तरधीयताम्
ततो ऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् भ्रातुर् हनुमतः प्रीत्यै स्नापयाम् आस मातरम्
तथैव हनुमान् गङ्गाम् आदायाद्रिम् अतित्वरन् मार्जाररूपिणीं नीत्वा गौतम्यास् तीरम् आप्तवान्
ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा ब्रह्मणो गिरिम् आसाद्य सर्वकामप्रदं शुभम्
योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत् मार्जारसंज्ञितात् तस्माद् धनूमन्तं वृषाकपिम्
फेनासंगमम् आख्यातं सर्वकामप्रदं शुभम् तस्य स्वरूपं व्युष्टिश् च तत्रैव प्रोच्यते शुभा
क्षुधातीर्थम् इति ख्यातं शृणु नारद तन्मनाः कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम्
ऋषिर् आसीत् पुरा कण्वस् तपस्वी वेदवित्तमः परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः
गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम्
वीक्ष्य कण्वो ऽथ वैषम्यं वैराग्यम् अगमत् तदा गौतमो ऽपि द्विजश्रेष्ठो ह्य् अहं तपसि निष्ठितः
समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि न भोक्ष्ये ऽहं क्षुधार्तो ऽपि पीडिते ऽपि कलेवरे
गच्छेयं गौतमीं गङ्गाम् अर्जयेयं च संपदम् इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम्