एकेन हयमेधेन तत्र स्नानेन वा पुनः सेत्स्यन्ति तत्र यज्ञाश् च दशमेधानि वाजिनः
तच् छ्रुत्वा भौवनो राजा गौतमीतीरम् अभ्यगात् कश्यपेन सहायेन हयमेधाय दीक्षितः
ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ संपूर्णे तु तदा राजा पृथिवीं दातुम् उद्यतः
ततो ऽन्तरिक्षे वाग् उच्चैर् उवाच नृपसत्तमम् पूजयित्वा स्थितं विप्रान् ऋत्विजो ऽथ सदस्पतीन्
पुरोधसे कश्यपाय सशैलवनकाननाम् पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप
भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते
विशेषतस् तु गङ्गायाः श्रद्धया पुलिने मुने त्वया तु हयमेधो ऽयं कृतः सबहुदक्षिणः कृतकृत्यो ऽसि भद्रं ते नात्र कार्या विचारणा
तथापि दातुकामं तं मही प्रोवाच भौवनम्
विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः निमज्जे ऽहं सलिलस्य मध्ये तस्मान् न दीयताम्
ततश् च भौवनो भीतः किं देयम् इति चाब्रवीत् पुनश् चोवाच सा पृथ्वी भौवनं ब्राह्मणैर् वृतम्
तिला गावो धनं धान्यं यत् किंचिद् गौतमीतटे सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि
गङ्गातीरं समाश्रित्य ग्रासम् एकं ददाति यः तेनाहं सकला दत्ता किं मां भौवन दास्यसि
तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः तथेति मत्वा विप्रेभ्यो ह्य् अन्नं प्रादात् सुविस्तरम्
ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः दशानाम् अश्वमेधानां फलं स्नानाद् अवाप्यते
पैशाचं तीर्थम् अपरं पूजितं ब्रह्मवादिभिः तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे
गिरिर् ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा
अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी केसरी नाम तद्भर्ता अद्रिकेति तथापरा
सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा उत्तमाङ्गेन मार्जारी साप्य् आस्ते ऽञ्जनपर्वते
दक्षिणार्णवम् अभ्यागात् केसरी लोकविश्रुतः एतस्मिन्न् अन्तरे ऽगस्त्यो ऽञ्जनं पर्वतम् अभ्यगात्
अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम् पूजयाम् आसतुर् उभे यथान्यायं यथासुखम्
ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः ते आहतुर् उभे ऽगस्त्यं पुत्रौ देहि मुनीश्वर
सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ तथेत्य् उक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम्
ततः कदाचित् ते काले अञ्जना चाद्रिका तथा गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि
वायुश् च निरृतिश् चापि ते दृष्ट्वा सस्मितौ सुरौ कामाक्रान्तधियौ चोभौ तदा सत्वरम् ईयतुः
भार्ये भवेताम् उभयोर् आवां देवौ वरप्रदौ ते अप्य् ऊचतुर् अस्त्व् एतद् रेमाते गिरिमूर्धनि
अञ्जनायां तथा वायोर् हनुमान् समजायत अद्रिकायां च निरृतेर् अद्रिर् नाम पिशाचराट्
पुनस् ते आहतुर् उभे पुत्रौ जातौ मुनेर् वरात् आवयोर् विकृतं रूपम् उत्तमाङ्गेन दूषितम्
शापाच् छचीपतेस् तत्र युवाम् आज्ञातुम् अर्हथः ततः प्रोवाच भगवान् वायुश् च निरृतिस् तथा
गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति इत्य् उक्त्वा ताव् उभौ प्रीतौ तत्रैवान्तरधीयताम्
ततो ऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् भ्रातुर् हनुमतः प्रीत्यै स्नापयाम् आस मातरम्