ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयो ऽनुमन्य च गौतमीं यान्तु सर्वाश् च स्नात्वापूज्य महेश्वरम्
एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् तथेत्य् उक्त्वा कृत्तिकाश् च स्नात्वा गङ्गां च गौतमीम्
देवेश्वरं च संपूज्य कार्त्तिकेयानुशासनात् देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम्
ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थम् उच्यते कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानम् आचरेत्
सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः तत्तीर्थस्मरणं वापि यः करोति शृणोति च सर्वपापविनिर्मुक्तो दीर्घम् आयुर् अवाप्नुयात्
दशाश्वमेधिकं तीर्थं तच् छृणुष्व महामुने यस्य श्रवणमात्रेण हयमेधफलं लभेत्
विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः तस्यापि प्रथमः पुत्रस् तत्पुत्रो भौवनो विभुः
पुरोधाः कश्यपस् तस्य सर्वज्ञानविशारदः तम् अपृच्छन् महाबाहुर् भौवनः सार्वभौवनः
यक्ष्ये ऽहं हयमेधैश् च युगपद् दशभिर् मुने इत्य् अपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति
सो ऽवदद् देवयजनं तत्र तत्र नृपोत्तम यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून्
तत्राभवन्न् ऋषिगणा आर्त्विज्ये मखमण्डले युगपद् दशमेधानि प्रवृत्तानि पुरोधसा
पूर्णतां नाययुस् तानि दृष्ट्वा चिन्तापरो नृपः विहाय देवयजनं पुनर् अन्यत्र तान् क्रतून्
उपाक्रामत् तथा तत्र विघ्नदोषास् तम् आययुः दृष्ट्वापूर्णांस् ततो यज्ञान् राजा गुरुम् अभाषत
देशदोषात् कालदोषान् मम दोषात् तवापि वा पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः
ततश् च दुःखितो राजा कश्यपेन पुरोधसा गीष्पतेर् भ्रातरं ज्येष्ठं गत्वा संवर्तम् ऊचतुः
भगवन् युगपत् कार्याण्य् अश्वमेधानि मानद दश संपूर्णतां यान्ति तं देशं तं गुरुं वद
ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा अब्रवीद् गच्छ ब्रह्माणं गुरुं देशं वदिष्यति
भौवनो ऽपि महाप्राज्ञः कश्यपेन महात्मना आगत्य माम् अब्रवीच् च गुरुं देशादिकं च यत्
ततो ऽहम् अब्रवं पुत्र भौवनं कश्यपं तथा गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान्
अयम् एव गुरुः श्रेष्ठः कश्यपो वेदपारगः गुरोर् अस्य प्रसादेन गौतम्याश् च प्रसादतः
एकेन हयमेधेन तत्र स्नानेन वा पुनः सेत्स्यन्ति तत्र यज्ञाश् च दशमेधानि वाजिनः
तच् छ्रुत्वा भौवनो राजा गौतमीतीरम् अभ्यगात् कश्यपेन सहायेन हयमेधाय दीक्षितः
ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ संपूर्णे तु तदा राजा पृथिवीं दातुम् उद्यतः
ततो ऽन्तरिक्षे वाग् उच्चैर् उवाच नृपसत्तमम् पूजयित्वा स्थितं विप्रान् ऋत्विजो ऽथ सदस्पतीन्
पुरोधसे कश्यपाय सशैलवनकाननाम् पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप
भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते
विशेषतस् तु गङ्गायाः श्रद्धया पुलिने मुने त्वया तु हयमेधो ऽयं कृतः सबहुदक्षिणः कृतकृत्यो ऽसि भद्रं ते नात्र कार्या विचारणा
तथापि दातुकामं तं मही प्रोवाच भौवनम्
विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः निमज्जे ऽहं सलिलस्य मध्ये तस्मान् न दीयताम्
ततश् च भौवनो भीतः किं देयम् इति चाब्रवीत् पुनश् चोवाच सा पृथ्वी भौवनं ब्राह्मणैर् वृतम्