तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्व् इति लज्जया परया युक्तो गौतमीम् अगमत् तदा
इयं च मातृरूपा मे शृणोतु मम भाषितम् इतः स्त्रीनामधेयं यन् मम मातृसमं मतम्
एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः पुत्रं निवारयाम् आस वृत्तम् इत्य् अब्रवीद् गुरुः
ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् कृताञ्जलिपुटः स्कन्दः पितरं पुनर् अब्रवीत्
सेनापतिः सुरपतिस् तव पुत्रो ऽहम् इत्य् अपि अलम् एतेन देवेश किं वरैः सुरपूजित
अथवा दातुकामो ऽसि लोकानां हितकाम्यया याचे ऽहं नात्मना देव तद् अनुज्ञातुम् अर्हसि
महापातकिनः केचिद् गुरुदाराभिगामिनः अत्राप्लवनमात्रेण धौतपापा भवन्तु ते
आप्नुवन्तूत्तमां जातिं तिर्यञ्चो ऽपि सुरेश्वर कुरूपो रूपसंपत्तिम् अत्र स्नानाद् अवाप्नुयात्
एवम् अस्त्व् इति तं शंभुः प्रत्यनन्दत् सुतेरितम् ततः प्रभृति तत् तीर्थं कार्त्तिकेयम् इति श्रुतम् तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् तस्य श्रवणमात्रेण सोमपानफलं लभेत्
पुरा तारकनाशाय भवरेतो ऽपिबत् कविः रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्यो ऽस्पृहन् मुने
सप्तर्षीणाम् ऋतुस्नातां वर्जयित्वा त्व् अरुन्धतीम् तासु गर्भः समभवत् षट्सु स्त्रीषु तदाग्नितः
तप्यमानास् तु शोभिष्ठा ऋतुस्नातास् तु ता मुने किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत्
इत्य् उक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् ताभ्यस् ते निःसृता गर्भाः फेनरूपास् तदाम्भसि
अम्भसा त्व् एकतां प्राप्ता वायुना सर्व एव हि एकरूपस् तदा ताभ्यः षण्मुखः समजायत
स्रावयित्वा तु तान् गर्भान् ऋषिपत्न्यो गृहान् ययुः तासां विकृतरूपाणि दृष्ट्वा ते ऋषयो ऽब्रुवन्
गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर् न युज्यते स्त्रीणाम् इति ततो वत्स निरस्ताः पतिभिस् तु ताः
ततो दुःखं समाविष्टास् त्यक्ताः स्वपतिभिश् च षट् ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः
गाङ्गेयो ऽग्निभवश् चेति विख्यातस् तारकान्तकः तं यान्तु न चिराद् एव प्रीतो भोगं प्रदास्यति
देवर्षेर् वचनाद् एव समभ्येत्य च षण्मुखम् कृत्तिकाः स्वयम् एवैतद् यथावृत्तं न्यवेदयत्
ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयो ऽनुमन्य च गौतमीं यान्तु सर्वाश् च स्नात्वापूज्य महेश्वरम्
एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् तथेत्य् उक्त्वा कृत्तिकाश् च स्नात्वा गङ्गां च गौतमीम्
देवेश्वरं च संपूज्य कार्त्तिकेयानुशासनात् देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम्
ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थम् उच्यते कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानम् आचरेत्
सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः तत्तीर्थस्मरणं वापि यः करोति शृणोति च सर्वपापविनिर्मुक्तो दीर्घम् आयुर् अवाप्नुयात्
दशाश्वमेधिकं तीर्थं तच् छृणुष्व महामुने यस्य श्रवणमात्रेण हयमेधफलं लभेत्
विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः तस्यापि प्रथमः पुत्रस् तत्पुत्रो भौवनो विभुः
पुरोधाः कश्यपस् तस्य सर्वज्ञानविशारदः तम् अपृच्छन् महाबाहुर् भौवनः सार्वभौवनः
यक्ष्ये ऽहं हयमेधैश् च युगपद् दशभिर् मुने इत्य् अपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति
सो ऽवदद् देवयजनं तत्र तत्र नृपोत्तम यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून्