मुक्तपापः पुनस् तत्र गङ्गायाम् अवगाहने अश्वमेधफलं पुण्यं प्राप्य पुण्यो भविष्यसि
सरिद्वरायां गौतम्यां ब्रह्मविष्ण्वीशसंभुवि पुनर् आप्लवनाद् एव त्यक्त्वा देहं मलीमसम्
विमानवरम् आरूढः स्वर्गं गन्तास्य् असंशयम्
तच् छ्रुत्वा वचनं ताभ्यां तथा चक्रे स लुब्धकः विमानवरम् आरूढो दिव्यरूपधरो ऽभवत्
दिव्यमाल्याम्बरधरः पूज्यमानो ऽप्सरोगणैः कपोतश् च कपोती च तृतीयो लुब्धकस् तथा गङ्गायाश् च प्रभावेण सर्वे वै दिवम् आक्रमन्
ततः प्रभृति तत् तीर्थं कापोतम् इति विश्रुतम् तत्र स्नानं च दानं च पितृपूजनम् एव च
जपयज्ञादिकं कर्म तद् आनन्त्याय कल्पते
कार्त्तिकेयं परं तीर्थं कौमारम् इति विश्रुतम् यन्नामश्रवणाद् एव कुलवान् रूपवान् भवेत्
निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती
यथासुखं भुङ्क्ष्व भोगांस् त्रैलोक्ये मनसः प्रियान् ममाज्ञया प्रीतमनाः पितुश् चैव प्रसादतः
एवम् उक्तः स वै मात्रा विशाखो देवतास्त्रियः यथासुखं बलाद् रेमे देवपत्न्यो ऽपि रेमिरे
ततः संभुज्यमानासु देवपत्नीषु नारद नाशक्नुवन् वारयितुं कार्त्तिकेयं दिवौकसः
ततो निवेदयाम् आसुः पार्वत्यै पुत्रकर्म तत् असकृद् वार्यमाणो ऽपि मात्रा देवैः स शक्तिधृक्
नैवासाव् अकरोद् वाक्यं स्त्रीष्व् आसक्तस् तु षण्मुखः अभिशापभयाद् भीता पार्वती पर्यचिन्तयत्
पुत्रस्नेहात् तथैवेशा देवानां कार्यसिद्धये देवपत्न्यश् चिरं रक्ष्या इति मत्वा पुनः पुनः
यस्यां तु रमते स्कन्दः पार्वती त्व् अपि तादृशी तद्रूपम् आत्मनः कृत्वा वर्तयाम् आस पार्वती
इन्द्रस्य वरुणस्यापि भार्याम् आहूय षण्मुखः यावत् पश्यति तस्यां तु मातृरूपम् अपश्यत
ताम् अपास्य नमस्याथ पुनर् अन्याम् अथाह्वयत् तस्यां तु मातृरूपं स प्रेक्ष्य लज्जाम् उपेयिवान्
एवं बह्वीषु तद् रूपं दृष्ट्वा मातृमयं जगत् इति संचिन्त्य गाङ्गेयो वैराग्यम् अगमत् तदा
स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् निवार्यश् चेद् अहं भोगात् किंतु पूर्वं प्रवर्तितः
तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्व् इति लज्जया परया युक्तो गौतमीम् अगमत् तदा
इयं च मातृरूपा मे शृणोतु मम भाषितम् इतः स्त्रीनामधेयं यन् मम मातृसमं मतम्
एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः पुत्रं निवारयाम् आस वृत्तम् इत्य् अब्रवीद् गुरुः
ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् कृताञ्जलिपुटः स्कन्दः पितरं पुनर् अब्रवीत्
सेनापतिः सुरपतिस् तव पुत्रो ऽहम् इत्य् अपि अलम् एतेन देवेश किं वरैः सुरपूजित
अथवा दातुकामो ऽसि लोकानां हितकाम्यया याचे ऽहं नात्मना देव तद् अनुज्ञातुम् अर्हसि
महापातकिनः केचिद् गुरुदाराभिगामिनः अत्राप्लवनमात्रेण धौतपापा भवन्तु ते
आप्नुवन्तूत्तमां जातिं तिर्यञ्चो ऽपि सुरेश्वर कुरूपो रूपसंपत्तिम् अत्र स्नानाद् अवाप्नुयात्
एवम् अस्त्व् इति तं शंभुः प्रत्यनन्दत् सुतेरितम् ततः प्रभृति तत् तीर्थं कार्त्तिकेयम् इति श्रुतम् तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम्
यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् तस्य श्रवणमात्रेण सोमपानफलं लभेत्