सहस्रं भरते कश्चिच् छतम् अन्यो दशापरः आत्मानं च सुखेनान्यो वयं कष्टोदरंभराः
गर्तधान्यधनाः केचित् कुशूलधनिनो ऽपरे घटक्षिप्तधनाः केचिच् चञ्चुक्षिप्तधना वयम्
पूजयामि कथं श्रान्तम् अभ्यागतम् इमं शुभे
अग्निर् आपः शुभा वाणी तृणकाष्ठादिकं च यत् एतद् अप्य् अर्थिने देयं शीतार्तो लुब्धकस् त्व् अयम्
एतच् छ्रुत्वा प्रियावाक्यं वृक्षम् आरुह्य पक्षिराट् आलोकयाम् आस तदा वह्निं दूरं ददर्श ह
स तु गत्वा वह्निदेशं चञ्चुनोल्मुकम् आहरत् पुरो ऽग्निं ज्वालयाम् आस लुब्धकस्य कपोतकः
शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः अग्नौ निक्षेपयाम् आस निशीथे स कपोतराट्
तम् अग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः अवशानि स्वकाङ्गानि प्रताप्य सुखम् आप्तवान्
क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी मा मुञ्चस्व महाभाग इति भर्तारम् अब्रवीत्
स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् इष्टातिथीनां ये लोकास् तांस् त्वं प्राप्नुहि सुव्रत
मयि तिष्ठति नैवायं तव धर्मो विधीयते इष्टातिथिर् भवामीह अनुजानीहि मां शुभे
इत्य् उक्त्वाग्निं त्रिर् आवर्त्य स्मरन् देवं चतुर्भुजम् विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम्
यथासुखं जुषस्वेति वदन्न् अग्निं तथाविशत् तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यम् अब्रवीत्
अहो मानुषदेहस्य धिग् जीवितम् इदं मम यद् इदं पक्षिराजेन मदर्थे साहसं कृतम्
एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यम् अब्रवीत्
मां त्वं मुञ्च महाभाग दूरं यात्य् एष मे पतिः
तस्यास् तद् वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् लुब्धको मोचयाम् आस तरसा भीतवत् तदा
सापि प्रदक्षिणं कृत्वा पतिम् अग्निं तदा जगौ
स्त्रीणाम् अयं परो धर्मो यद् भर्तुर् अनुवेशनम् वेदे च विहितो मार्गः सर्वलोकेषु पूजितः
व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् एवं त्व् अनुगता नारी सह भर्त्रा दिवं व्रजेत्
तिस्रः कोट्यो ऽर्धकोटी च यानि रोमाणि मानुषे तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति
नमस्कृत्वा भुवं देवान् गङ्गां चापि वनस्पतीन् आश्वास्य तान्य् अपत्यानि लुब्धकं वाक्यम् अब्रवीत्
त्वत्प्रसादान् महाभाग उपपन्नं ममेदृशम् अपत्यानां क्षमस्वेह भर्त्रा यामि त्रिविष्टपम्
इत्य् उक्त्वा पक्षिणी साध्वी प्रविवेश हुताशनम् प्रविष्टायां हुतवहे जयशब्दो न्यवर्तत
गगने सूर्यसंकाशं विमानम् अतिशोभनम् तदारूढौ सुरनिभौ दंपती ददृशे ततः
हर्षेण प्रोचतुर् उभौ लुब्धकं विस्मयान्वितम्
गच्छावस् त्रिदशस्थानम् आपृष्टो ऽसि महामते आवयोः स्वर्गसोपानम् अतिथिस् त्वं नमो ऽस्तु ते
विमानवरम् आरूढौ तौ दृष्ट्वा लुब्धको ऽपि सः सधनुः पञ्जरं त्यक्त्वा कृताञ्जलिर् अभाषत
न त्यक्तव्यो महाभागौ देयं किंचिद् अजानते अहम् अत्रातिथिर् मान्यो निष्कृतिं वक्तुम् अर्हथः
गौतमीं गच्छ भद्रं ते तस्याः पापं निवेदय तत्रैवाप्लवनात् पक्षं सर्वपापैर् विमोक्ष्यसे