नापराधं स्मराम्य् अस्य धर्मबुद्धिं स्थिरां कुरु गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः
पतिर् एव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः अभ्यागतम् अनुप्राप्तं वचनैस् तोषयन्ति ये
तेषां वागीश्वरी देवी तृप्ता भवति निश्चितम् तस्यान्नस्य प्रदानेन शक्रस् तृप्तिम् अवाप्नुयात्
पितरः पादशौचेन अन्नाद्येन प्रजापतिः तस्योपचाराद् वै लक्ष्मीर् विष्णुना प्रीतिम् आप्नुयात्
शयने सर्वदेवास् तु तस्मात् पूज्यतमो ऽतिथिः अभ्यागतम् अनुश्रान्तं सूर्योढं गृहम् आगतम् तं विद्याद् देवरूपेण सर्वक्रतुफलो ह्य् असौ
अभ्यागतं श्रान्तम् अनुव्रजन्ति देवाश् च सर्वे पितरो ऽग्नयश् च तस्मिन् हि तृप्ते मुदम् आप्नुवन्ति गते निराशे ऽपि च ते निराशाः
तस्मात् सर्वात्मना कान्त दुःखं त्यक्त्वा शमं व्रज कृत्वा तिष्ठ शुभां बुद्धिं धर्मकृत्यं समाचर
उपकारो ऽपकारश् च प्रवराव् इति संमतौ उपकारिषु सर्वो ऽपि करोत्य् उपकृतिं पुनः
अपकारिषु यः साधुः पुण्यभाक् स उदाहृतः
आवयोर् अनुरूपं च त्वयोक्तं साधु मन्यसे किंतु वक्तव्यम् अप्य् अस्ति तच् छृणुष्व वरानने
सहस्रं भरते कश्चिच् छतम् अन्यो दशापरः आत्मानं च सुखेनान्यो वयं कष्टोदरंभराः
गर्तधान्यधनाः केचित् कुशूलधनिनो ऽपरे घटक्षिप्तधनाः केचिच् चञ्चुक्षिप्तधना वयम्
पूजयामि कथं श्रान्तम् अभ्यागतम् इमं शुभे
अग्निर् आपः शुभा वाणी तृणकाष्ठादिकं च यत् एतद् अप्य् अर्थिने देयं शीतार्तो लुब्धकस् त्व् अयम्
एतच् छ्रुत्वा प्रियावाक्यं वृक्षम् आरुह्य पक्षिराट् आलोकयाम् आस तदा वह्निं दूरं ददर्श ह
स तु गत्वा वह्निदेशं चञ्चुनोल्मुकम् आहरत् पुरो ऽग्निं ज्वालयाम् आस लुब्धकस्य कपोतकः
शुष्ककाष्ठानि पर्णानि तृणानि च पुनः पुनः अग्नौ निक्षेपयाम् आस निशीथे स कपोतराट्
तम् अग्निं ज्वलितं दृष्ट्वा लुब्धकः शीतदुःखितः अवशानि स्वकाङ्गानि प्रताप्य सुखम् आप्तवान्
क्षुधाग्निना दह्यमानं व्याधं दृष्ट्वा कपोतकी मा मुञ्चस्व महाभाग इति भर्तारम् अब्रवीत्
स्वशरीरेण दुःखार्तं लुब्धकं प्रीणयामि तम् इष्टातिथीनां ये लोकास् तांस् त्वं प्राप्नुहि सुव्रत
मयि तिष्ठति नैवायं तव धर्मो विधीयते इष्टातिथिर् भवामीह अनुजानीहि मां शुभे
इत्य् उक्त्वाग्निं त्रिर् आवर्त्य स्मरन् देवं चतुर्भुजम् विश्वात्मकं महाविष्णुं शरण्यं भक्तवत्सलम्
यथासुखं जुषस्वेति वदन्न् अग्निं तथाविशत् तं दृष्ट्वाग्नौ क्षिप्तजीवं लुब्धको वाक्यम् अब्रवीत्
अहो मानुषदेहस्य धिग् जीवितम् इदं मम यद् इदं पक्षिराजेन मदर्थे साहसं कृतम्
एवं ब्रुवन्तं तं लुब्धं पक्षिणी वाक्यम् अब्रवीत्
मां त्वं मुञ्च महाभाग दूरं यात्य् एष मे पतिः
तस्यास् तद् वचनं श्रुत्वा पञ्जरस्थां कपोतकीम् लुब्धको मोचयाम् आस तरसा भीतवत् तदा
सापि प्रदक्षिणं कृत्वा पतिम् अग्निं तदा जगौ
स्त्रीणाम् अयं परो धर्मो यद् भर्तुर् अनुवेशनम् वेदे च विहितो मार्गः सर्वलोकेषु पूजितः
व्यालग्राही यथा व्यालं बिलाद् उद्धरते बलात् एवं त्व् अनुगता नारी सह भर्त्रा दिवं व्रजेत्